________________
क्षणे आधीचिमरणेन' क्षीयमाणं कियन्तं कालं स्थास्यतीत्येवं मूढत्वान्न जानन्तीति भावः ।।२।।
व्याख्य
गाथा - जं कल्ले कायव्, तं अज्जं चिय करेह तुरमाणा ।
बहुविग्यो हु मुहुत्तो, मा अवरण्हं पडिक्खेह ।।३।। हे प्राणिनः ! यत् ‘कल्ये' आगामिदिने, कर्तव्यं धर्मकरणीयमिति गम्यते, तद्धर्मकरणीयं त्वरमाणाः' विलम्बमकुर्वन्तः सन्तः ‘चिय' शब्दस्य एवकारार्थत्वादद्यैव कुरुध्वं, यतो 'हु' निश्चये, ‘बहवः' प्रचुरा, 'विघ्ना' अन्तरायाः सन्त्यस्मिन्निति बहुविघ्न एव 'मुहूर्त्तः' कालविशेषः, अतो मा 'अपराहँ' सायन्तनसमयं, 'प्रतीक्षध्वं' विलम्बध्वं, “श्रेयांसि बहुविघ्नानी"ति वचनात् पुण्ये कर्मणि प्रवर्तमानानां पुंसां बहवोऽन्तराया उत्तिष्ठन्त्यतो धर्मकर्मविधाने मा विलम्बंकुरुध्वमिति, तथा च वेदेऽप्येवमेवोक्तम्“न श्वः श्वः समुपासीत्, को हि मनुष्यस्य श्वो वेदेति” ।।३।।
गाथा - ही !! संसारसहावं, चरियं नेहाणुरागरत्ता वि ।
जे पुवण्हे दिट्ठा, ते अवरण्हे न दीसंति ।।४।। व्याख्या - मकारोऽलाक्षणिकः, संसारस्वभावस्य चरितं' आचरणं,
संसारस्वभावचरितं दृष्ट्वा 'हो' इति विषादो मम, कथं विषादः ? इत्याह
१. "तत्र वीचिविच्छेदस्तदभावादवीचि [स्तदेवआवीचि] स्तेन मरणम [आ] वीचिमरणं,
तत्पञ्चधा-द्रव्य १ क्षेत्र २ काल, ३ भव ४ भाव ५ भेदात् । तत्र यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृति निजनिजायुः कर्मदलिकानामनुसमयमनुभवनाद् विचटनं तद् द्रव्यावीचिमरणं, तञ्च नारकादिगति-चातुर्विध्याश्चतुर्विधम् । एवं नरकादिचतुर्गतिविषयक्षेत्रप्राधान्यापेक्षया क्षेत्राविचिमरणमपि चतुर्द्धव । देवादिष्वद्धाकालस्यासम्भवाद् देवाऽऽयुष्ककालादिचतुर्भेदप्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधम् । एवं देवादिचतुर्विधभवापेक्षया भावावीचिमरणं चतुर्दा । तथा देवादीनां चतुर्विधायुः क्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुर्द्धवेति" उत्तराध्ययनसर्वार्थसिद्धिवृत्तौ १३५ पत्रे
खरतरगच्छगगनाङ्गनभोमणयः श्रीकमलसंयमो-पाध्यायपादाः । KKRKEREKKEEKKAKEkkkkkkkkkkkk ३ वैराग्यशतकम्