________________
व्याख्या - हे आत्मन् ! अमी जीवाः संसारे चातुर्गतिकरूपे संसरन्त' इतस्ततः पर्यटन्तः
सन्तो 'असकृद्' वारंवारं 'घोरं' रौद्र'दुःखं' असातं 'अनुभवन्ति' प्राप्नुवन्ति किम्भूता जीवाः ?, जन्मजरामरणान्येव 'तीक्ष्णा' निशिता, ये 'कुन्ताः'
प्रासास्तै विध्यमाना' भेद्यमाना, अत एव दुःखानुभवनं जीवानाम् ।।८८ ।। गाथा - तह वि खणं पि कया वि हु, अनाणभुअंगडंकिआ जीवा ।
संसारचारगाओ, न य उबिज्जंति' मूढमणा ।।८९।।
व्याख्या - यद्यप्येवं दुःखमनुभवन्ति तथाऽपि, ‘हु निश्चये, ‘कदाऽपि' कस्मिन्नपि
प्रस्तावे, अमी 'मूढमनसो' मूर्खा जीवा, अज्ञानमेव भुजङ्गस्तेन 'दष्टा'भक्षिता, अज्ञानान्धा इत्यर्थः, 'क्षणमपि' स्तोककालमपि, संसार
एव 'चारको' गुप्तिगृहं, तस्मात् 'न चोद्विजन्ते' नोद्विग्ना भवन्ति ।।८९ ।। गाथा - कीलसि कियंत वेलं, सरीरवावीइ जत्थ पइसमयं ।
कालरहट्टघडीहिं, सोसिजइ जीवियंऽभोहं ।।१०।।
व्याख्या - रे जीव ! त्वं 'शरीरवाप्यां' देहरूपदीर्धिकायां कियती 'वेलां' समयं
यावत् क्रीडिष्यसि' रंस्यसे ?, कियन्तं कालं स्थास्यसीत्यर्थः, यत्र शरीरवाप्यां 'प्रतिसमयं' प्रतिक्षणं कालारघट्टघटीभिर्जीविताम्भ ओघो' जीवितजलप्रवाहः शोष्यते, यथा वापी अरहट्टघटीभिः प्रतिसमयं निर्वास्यमानजलेन शोषमासादयति, तथेदं शरीरमपि प्रतिसमयं
कालातिक्रमणेन जीवितजलशोषणाद्रिक्तं जायत इत्यर्थः ।।१०।। गाथा - रे जीव ! बुज्झ मा मुज्झ, मा पमायं करेसि रे पाव ! ।
किं परलोए गुरुदुक्ख, - भायणं होहिसि ? अयाण ! ।।११।। व्याख्या - 'रे जीव !' आत्मन् ! त्वं 'बुध्यस्व' धर्मे बोधं करु, ‘मा मुह्य' मा
मोहमाप्नुहि, ‘रे पाप !' दुष्टात्मन् !, अदृष्टवशात्प्राप्ते धर्मे मा ‘प्रमादं' मा आलस्यं कुरु, हे 'अज्ञान !' मूढ ! ‘परलोके' परभवे 'गुरुदुःखानां' महदसातवेदनीयकर्मजन्यपीडानां 'भाजनं' पात्रं किं भवसि ?,
वर्तमानायां भविष्यत्प्रयोगः प्राकृतत्वात् ।।११।। १. उववज्जति इत्यपि पाठः ।
५०
वैराग्यशतकम्