SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जीवइ अन्ज वि सत्तू, मओ अ इट्ठो पहू अ मह रुट्ठो । दाणिग्गहणं मग्गं-ति विहविणो कत्थ वञ्चामि ? ।।८।। इञ्चाइ महाचिंता, जरगहिया णिञ्चमेव य दरिद्दा । किं अणुहवंति सुक्खं ?, कोसंबीनयरिविप्पुव्व ।।९।।" तत्कथानकमिदं कौशाम्ब्यां सोमिलो द्विज आजन्मदरिद्रो भार्यापुत्रपुत्रिकादिकुटुम्बबहुलोऽन्यदा धनार्जनाय देशान्तरे गतः सन् वाणिज्यादिव्यापाररहितं सदानभोगं योगिनमेकमद्राक्षीत्, स च तं द्विजं चिन्तातुरं पृच्छति-का चिन्ता ?, तेनोक्तं-दारिद्यं चिन्ताकारी, योगी स्माह-त्वामीश्वरं करोमि, यदहं कथयामि तत्त्वया कार्य, ततो द्वावपि पर्वतनिकुञ्ज गती, योगी प्राह-एष स्वर्णरसः शीतवातातपादिसहमानैः शुष्ककन्दमूलफलाशिभिः शमीपत्रपुटैर्मील्यते, द्वाभ्यामपि ततस्तथैव गृहीतो रसः, भृतं तम्बं, विनिर्गतौ वनात्, योगी स्माह-भो ! अप्रमत्तेन तुम्बकं धार्य, दुःखेन षण्मासैर्मीलितोऽस्ति रसोऽयं, इत्येवं पुनः पुनः कथने रुष्टो विप्रो, ढोलितं तुम्ब, सागपत्रेरितस्ततः क्षिप्तो रसो गतः सर्वः, ततोऽयोग्योऽयमिति परित्यक्तः पृथिव्यां भान्त्वा मृत इति ।।८६।। गाथा - पवणुव्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो । ठाणट्ठाणंमि समु-ज्झिऊण धणसयणसंघाए ।।८७।। व्याख्या - हे आत्मन् ? अयं 'जीवः' प्राणी स्थाने स्थाने धनस्वजनसंघातान् "समुझिऊण"त्ति समुज्झ्य-त्यक्त्वा भववने अलक्षितो' अज्ञातस्वरूपः सन् 'भ्रमति' पर्यटति, कस्मिन् क इव ?, 'गगनमार्गे' नभोवम॑नि पवन इव, यथा गगने पवनो' वातो अलक्षितो' अदृश्यरूपः सन्भ्रमति, तथाऽयंजीवोऽपि ।।८७ ।। गाथा - विधिज्जंताअसयं, जम्मजरामरणतिक्खकुंतेहिं । दुहमणुहवंति धोरं, संसारे संसरंत जिया ।।८८।। १. तुम्बस्तम्बादय इति निपात्यन्तं, तुम्बमलावु । २. विद्धिज्जता इत्यपि पाठः । KKAKKAREKARKIRKEKKEKREKKKKREKKIKAKKAKE ४९ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy