________________
प्रश्न-जीवो भगवन्! गर्भ व्युत्क्रामन् तत्प्रथमतया कम् आहारम् आहारयति।
उत्तर-गौतम! मातृ-ओजः, पितृशुक्र तत् तदुभय संश्लिष्टं कलुषम् , किल्विषं तत् प्रथमतया आहारं आहारयति।
प्रश्न-जीवो भगवन्! गर्भगतः सन् कम् आहारयति?
उत्तर-गौतम! यत् तद्-माता नानाविधा रसविकृ- तीराहारम् आहारयति, तदेकदेशेन ओज आहारयति।
प्रश्न-जीवस्य भगवन्! गर्भगतस्य सतः अस्ति उच्चार इति वा, प्रस्रवणमिति वा, खेल इति वा, शिघानकमिति वा, वान्तमिति वा, पित्तमिति
वा?
उत्तर-नायमर्थः समर्थः। प्रश्न-तत्केनार्थेन?
उत्तर-गौतम! जीवो गर्भगतः सन् यदाहारयति तत् चिनोति, तत् श्रोत्रेन्द्रियतया यावत् स्पर्शेन्द्रियतया, अस्थि-अस्थिमज्जा केश-श्मश्रु रोम-नखतया, तत तेनार्थेन।
प्रश्न-जीवो भगवन्! गर्भगतः सन् प्रभुर्मुखेन कावलिकम् आहारम् आहर्तुम्?
उत्तर-गौतम! नायमर्थः समर्थः । प्रश्न-तत् केनार्थेन?
उत्तर-गौतम! जीवो गर्भगतः सन सर्वतः आहारयति, सर्वतः परिणामयति, सर्वतः उच्छवसति सर्वतः निःश्वसति, अभिक्षणम् आहारयति, अभिक्षणम् परिणमयति, अभिक्षणम् उच्छवसति अभिक्षणम् निःश्वसति। आहात्य आहारयति, आहत्य परिणमयति, आहत्य उच्छवसति, आहत्य निःश्वसति, मातृजीवरसहरणी, पुत्रजीव रसहरणी, मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा, तस्माद् आहारयति, तस्मात् परिणमयति, अपराऽपि च पुत्रजीव प्रतिबद्धा मातृजीव स्पृष्टा तस्मात् चिनोति, तस्माद् उपचिनोति, तत् तेनार्थेन यावत्-नो प्रभुर्मुखेन कावलिकम् आहारम् आहर्त्तम्।
शब्दार्थ प्रश्न-भगवन्! गर्भ में उत्पन्न होता हुआ जीव क्या इन्द्रिय वाला उत्पन्न होता है या बिना इन्द्रिय का उत्पन्न होता है?
उत्तर-हे गौतम! इन्द्रिय वाला भी उत्पन्न होता है और बिना इन्द्रिय का भी उत्पन्न होता है।
80090098888888RoRARg09999999AAMARRORRIDORRORAMANANAGAR