SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५२ अथ वर्गणाश्रयेणैकत्वमाह नैरयिकादिचतुर्विंशतिवर्गणा अपि ॥९॥ अथ स्थानमुक्तासरिका नैरयिकादीति, नैरयिकासुरनागसुपर्णविद्युदग्निद्विपोदधिदिक्पवनस्तनितकुमारपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियतिर्यङ्नरव्यन्तरज्योतिष्कवैमानिकसम्बन्धिचतुर्विंशतिवर्गणा अपि प्रत्येकं सामान्यादेकरूपाः, तत्र नैरयिकाः पृथिवीप्रस्तरनरकावासस्थितिभव्यात्वाभव्यत्वादिभेदादनेकविधास्तेषां समुदायोवर्गणा तस्याश्चैकत्वं नारकत्वपर्यायसाम्यात् नारकाश्च प्रकृष्टपापकर्मफलभोक्तृतया सिद्धा यथा देवाः प्रकृष्टषुण्यफलभोक्तृतया सिद्धाः । न च देवा अप्यसिद्धा इति वक्तव्यम्, देव इति सार्थकं पदं व्युत्पत्तिमच्छुद्धपदत्वाद्घटादिपदवदिति तत्सिद्धेः न ये गुणद्धिसम्पन्नो नर एव देवपदाभिधेय इति वाच्यम्, तत्र देवत्वस्यौपचरितत्वात्, उपचारश्च सत्यां तथ्यार्थसिद्धौ भवति, यथाऽनुपचरितसिंहसद्भावे माणवके सिंहोपचारः । नारकादिस्तनितकुमारपर्यन्तेषु दर्शनत्रयमस्ति सम्यग्दृष्टिनैरयिकादिवर्गणाः, मिथ्यादृष्टिनैरयिकादिवर्गणाः, सम्यङ्मिथ्यादृष्टिनैरयिकादिवर्गणाः । पृथिव्यादिपञ्चानां मिथ्यात्वस्यैव सद्भावान्मिथ्यादृष्टिपृथिवीकायिकादिवर्गणाः । द्वीन्द्रियादीनां त्रयाणां मिश्रताया अभावेन द्वीन्द्रियादीनां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वर्गणा अप्येकैकरूपाः सामान्यात्, शेषाः पञ्चेन्द्रियतिर्यङ्नरव्यन्तरज्योतिष्कवैमानिकानां त्रिविधा अपि वर्गणा भवन्ति, कृष्णपाक्षिकाणां शुक्लपाक्षिकाणाञ्च नैरयिकादिचतुर्विंशतिमार्गणा अप्येकरूपाः, षड्लेश्यानां वर्गणा अपि । तत्र भवनपतिवानव्यन्तरपृथिव्यप्कायिकवनस्पतिकायानां प्राथमिकाश्चतस्रो लेश्याः, तेजोवायुकद्वित्रिचतुरिन्द्रियाणां तिस्रो लेश्याः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां षडपि । ज्योतिष्काणां तेजोलेश्या वैमानिकानामुत्तरास्तिस्रो लेश्या भवन्ति । ततस्तादृशानां ता वर्गणा एकैकाः । एवं यथायथं कृष्णादिलेश्यानां भव्यानामभव्यानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यङ्मिथ्यादृष्टीनां कृष्णपाक्षिकाणां शुक्लपाक्षिकाणाञ्च वर्गणा एवंरूपा विज्ञेयाः । तथाऽनन्तरसिद्धानां परम्परासिद्धानां वर्गणाः परमाणूनां द्व्यादिप्रदेशानां यावदनन्तप्रदेशिकानां पुद्गलानामेकादिप्रदेशावगाढानां यावदसंख्येयप्रदेशावगाढानामेकादिसमयस्थितिकानां यावदसंख्येयसमयस्थितिकानामेकादिगुणकालकानां यावदनन्तगुणकालकानाञ्च पुद्गलानां वर्गणा भाव्या इति संक्षेपः । तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमुक्तम्, विशेषनयाभिप्रायेण तु तेषामनेकत्वमपि, तथा च जीवादीनां स्यादेकत्वं स्यादनेकत्वञ्चेति स्थितम् ॥९॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy