SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८ अथ स्थानमुक्तासरिका अथ पुद्गलधर्माणां तदालिङ्गितजीवाप्रशस्तधर्माणामेकतामाह रूपादयोऽव्रतकषायप्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषामिथ्यात्वशल्यानि सविपक्षाणि च ॥७॥ रूपादय इति, रूपरसगन्धस्पर्शशब्दा इत्यर्थः तत्र रूपादयः स्वस्वावान्तरभेदापेक्षयाऽनेकेऽपि स्वस्वसामान्यादेकरूपा इति भावः । अव्रतेत्यादि, प्राणातिपातो द्रव्यभावभेदेन द्विविधः, विनाशप- रितापसंक्लेशभेदेन त्रिविधः, योगैः करणैर्नवविधः, क्रोधादिभेदात् षट्त्रिंशद्विधो वा, मृषावादो द्रव्यभावभेदेन द्विविधः, अभूतोद्भावनभूतनिह्नववस्त्वन्तरन्यासनिन्दाभेदेन चतुर्विधः, अदत्तादानं विविधोपाधिवशादनेकविधम्, मैथुनमौदारिकवैक्रियविषयं करणैर्योगैरष्टादशविधं विविधोपाधितो बहुतरं वा, परिग्रहो वाह्याभ्यन्तरभेदेन द्विविधः, विविधोपाधितो वहुविधो वा । कषायाः क्रोधमानमायालोभाः, कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामाः, ते चानन्तानुबन्ध्यादिभेदतोऽसंख्याताध्यवसायस्थानभेदतो वा बहुविधाः । प्रियस्व भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रम्, द्वेषणं द्वेषः स चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति । कलहः, अभ्याख्यानं-प्रकटमसदोषारोपणम्, पैशुन्यं पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनम्, परेषां परिवादः परपरिवादो विकत्थनम्, अरतिस्तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिस्तथाविधानन्दरूपा, अरतिरतीत्येकमेव विवक्षितम्, यतः क्वचन विषये या रतिस्तामेव विषयान्तरापेक्षयाऽरतिं तथाऽरतिमेव रति व्यपदिशन्तीत्यौपचारिकमेकत्वमनयोः । मायया सह मृषा मायामृषा, इदं मानमृषादि संयोगदोषोपलक्षकम् । प्रेमादीनि विषयभेदादध्यवसायभेदाद्वा बहुविधानि, मिथ्यादर्शनं विपर्यस्तदृष्टिः, तदेव शल्यं दुःखहेतुत्वात्, मिथ्यादर्शनं च पञ्चधाऽभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदात्, उपाधिभेदतो बहुतरं वा, सर्वेषामेषां प्राणातिपातादीनां स्वस्वसामान्यादेकत्वमवगन्तव्यम् । एषामष्टादशपापस्थानानां विपक्षाः प्राणातिपातविरमणादिरूपा अपि तथैवेति दर्शयति सविपक्षाणि चेति ॥ ७ ॥ પુદ્ગલના ધર્મોનું એકપણું કહ્યું... હવે પુદ્ગલોને આશ્રિત જીવોના અપ્રશસ્ત ધર્મોની એકતા 5 छ. रूपादयो :- ३५, २स., ५, स्पर्श माह पातपाताना Aait२ मेहनी अपेक्षा ३६ અનેક હોવા છતાં પણ પોતપોતાના સામાન્યથી એકરૂપ છે. માટે રૂપાદિ એક છે.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy