________________
स्थानांगसूत्र
આ બે પ્રકારની વેદનાથી જીવ કર્મને વેદે છે - ઉદીરણા કરે છે, ઉદિરીત થયેલા એટલે કે ઉદીરણાથી ઉદયમાં આવેલા કર્મને તેના વિપાકથી ભોગવે છે. અને તે કર્મોને આત્માના પ્રદેશોથી नि छ - ते 8ने पावे छे. ॥३२॥
निर्जरणे च कर्मणो देशतः सर्वथा वा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीत्याह
शरीरं देशेन सर्वेण वा स्पृष्ट्वा सस्पन्दं स्फुटं विशीर्णञ्च कृत्वा संवर्त्य निवर्त्य निर्याति ॥३३॥
शरीरमिति, जीवः शरीरान्मरणकाले देहं कतिपयप्रदेशलक्षणेन देशेन स्पृष्ट्वा श्लिष्ट्वा निर्याति, केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात् । कन्दुकगत्योत्पादस्थानं गच्छता शरीराबहिः प्रदेशानामप्रक्षिप्तत्वात् सर्वैर्जीवप्रदेशैः स्पृष्ट्वा निर्याति, अथवा देशेनापि सर्वेणापीति वाच्यम्, तदाऽवयवान्तरेभ्यः प्रदेशसंहाराच्छरीरदेशं पादादिकं स्पृष्ट्वा निर्याति, स च संसारी, सर्वेणेत्यत्रापि देशेनेत्यपेक्ष्यते, सर्वमपि शरीरं स्पृष्ट्वा निर्याति, स च सिद्धः । शरीरस्पर्शे स्फुरणस्य भावात्सस्पन्दमिति, ईलिकागतिकाले कियद्भिरात्मप्रदेशैर्गेन्दुकगतिकाले सर्वैरपि शरीरं सस्पन्दं कृत्वा निर्याति । अथवा पादादिनिर्याणकाले शरीरदेशं स्फोरयित्वा सर्वाङ्गनिर्याणावसरे सर्व शरीरं स्फोरयित्वा निर्यातीति । स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह स्फुटमिति, आत्मदेशेन शरीरं सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वेलिकागतौ, गेन्दुकगतौ सर्वैरपि शरीरं स्फुटं कृत्वेत्यर्थः । तथाऽक्ष्यादिविघातेन सर्वविशरणेन वा देवदीपादिजीववद्विशीर्णं च कृत्वेति वार्थः । शरीरं सात्मकतया स्फुटीकुर्वन् कश्चित्तत्संवर्तनमपि करोतीत्याह संवत्येति, संकोच्य, शरीरं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वात्, अथवा देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, आत्मनः संवर्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह निवर्येति, ईलिकागतौ देशेन गेन्दुकगतौ सर्वेण जीवप्रदेशेभ्यः शरीरं पृथक्-कृत्येत्यर्थः, यद्वा देशतः शरीरं निवर्त्यात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरमौदारिकादि निवर्त्य तैजसकार्मणे त्वादायैव, तथा सर्व शरीरसमुदायं निवर्त्य सिद्ध्यतीत्यर्थः ॥३३॥