________________
सूत्रार्थमुक्तावलिः
विवक्षितपदानां प्रोक्तक्रमद्वयोल्लंघनेन परस्परासदृशैः सम्भवद्भिर्भङ्गकैर्विरचनं यस्यां साऽनानुपूर्वी, सा च विवक्षितसमुदायघटकक्रमन्यस्तपदार्थसंख्यानामन्योऽन्यं गुणनेन लब्धसंख्यासदृशभङ्गेष्वाद्यन्तभङ्गपरित्यागेनावशिष्टैर्भङ्गैर्भवति यथा विवक्षितसमुदायो धर्माधर्माकाशजीवपुद्गलाद्धासमयरूपः तद्घटकक्रमविन्यस्तपदार्थसंख्या एकद्वित्रिचतुःपञ्चषपाः, तासां परस्परं गुणनं एकेन द्विके गुणिते द्वौ, ताभ्यां त्रिके गुणिते षट् तैश्चतुष्कके गुणिते चतुर्विशति: तया पञ्चके गुणिते विंशोत्तरं शतं तेन षट्कस्य गुणने विंशत्यधिकसप्तशतानि भवन्ति, इयन्तो भङ्गास्तत्र प्रथमभङ्गस्य पूर्वानुपूर्वीत्वेन चरमभङ्गस्य पश्चानुपूर्वीत्वेन तयोस्त्यागेनावशिष्टैरष्टादशोत्तरसप्तशतरूपैर्भङ्गैरनानुपूर्वी भवति, एवमेवान्यसमुदायेष्वपि भाव्यम् । भङ्गकस्वरूपानयनं यथा- पूर्वानुपूर्व्या अधः प्रस्तुतभङ्गकरचनव्यवस्थानतिक्रमेणैकादीनि पदानि यथाज्येष्ठं न्यसेत् यो हि यस्यादौ भवति स तस्य ज्येष्ठः यथा द्विकस्याव्यवहितपूर्ववर्त्येकको ज्येष्ठो द्विकस्य, यो यदीयज्येष्ठाव्यवहितपूर्ववर्ती स तस्यानुज्येष्ठः, यथा त्रिकस्यैकः, यश्च यदीयानुज्येष्ठाव्यवहितपूर्ववर्त्ती स तस्य ज्येष्ठानुज्येष्ठ इत्येवमन्यत्रापि भाव्यम् । व्यवस्थाभेदश्च न कार्यः, व्यवस्थाभेदो हि तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्क आपतेत् निक्षिप्ताङ्कस्य पुरतो यथासम्भवमुपरितनाङ्कसदृशानेवाङ्कान् पूर्वक्रमेण स्थापयेत् पूर्वक्रमश्च पूर्वानुपूर्व्या यथा दृष्टास्तथा यस्संख्यया लघुः स प्रथमं स्थाप्यते वस्तुतया महांश्च पश्चादिति । अत्र त्रीणि पदान्याश्रित्य भङ्गका दर्श्यन्ते, तेषां हि परस्पराभ्यासे षड्भङ्गका भवन्ति, तत्र पूर्वानुपूर्वी प्रथमो भङ्गो यथा १२३ इति, अस्याधस्तात् भङ्गकरचने क्रियमाणे एककस्य ज्येष्ठाभावात् द्विकस्यैककरूपज्येष्ठस्य सत्त्वात्स एव तस्याऽधो निक्षिप्यते, तस्य पुरत उपरितनाङ्कतुल्यत्वात्रिको दीयते तस्य पृष्ठतस्तु स्थापितशेषो द्विको दीयत इति २१३ भङ्गोऽयं निष्पन्नः, अत्राद्यस्य द्विकस्यैको ज्येष्ठो वर्त्तते परन्तु स न निक्षिप्यते तस्याग्रत उपरितनाङ्कतुल्याङ्कस्य विन्यसनापत्त्या तत्र च सदृशाङ्कपातेन व्यवस्थाभेदप्रसङ्गात् । ततो द्वितीयाङ्कस्यैकस्य ज्येष्ठाभावात्तृतीयाङ्कस्य त्रिकस्य ज्येष्ठो द्विकस्तदधो निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव पदत्रयाश्रयेण भङ्गकरणात्, तस्मात्पृष्ठतः स्थापितशेषावेककत्रिक क्रमतो निक्षिप्येते पूर्वक्रमेण, यथा च १३२ भङ्गोऽयं जातः, अत्रापि एककस्य ज्येष्ठो नास्ति, त्रिकस्यास्ति द्विकः परं न स्थाप्यते, अग्रे सदृशाङ्कपातेन व्यवस्थाभेदप्रसङ्गादतोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, तत उपरितनाङ्कतुल्यो द्विकः, पृष्ठतः स्थापितशेषस्त्रिको दीयत इति
९०