________________
७९
अनुयोगद्वार
અર્થ પદ પ્રરૂપણતા-ભંગ સમુત્કીર્તનતા-ભંગ ઉપદર્શનતા-સમવતાર અને અનુગામના ભેદથી નૈગમવ્યવહાર સંમત અનૌપનિધિની પાંચ પ્રકારે છે.
નૈગમ વ્યવહાર સંમત અનૌપનિધિતી દ્રવ્યાનુપૂર્વીનો નૈગમ અને વ્યવહાર એ બે નયના સ્વરૂપથી નિરૂપણ કરેલ છે. સૂત્રમાં દર્શાવેલ પાંચ પ્રકારે અર્થપદ પ્રરૂપણતાને કહે છે.
अर्थपदप्ररूपणतामाह-- संज्ञासंज्ञिकथनमर्थपदप्ररूपणता ॥२८॥
संज्ञेति, आनुपूर्व्यादिपदं संज्ञा संज्ञी त्र्यणुकस्कन्धादिः, तयोः कथनं यथा परमाणुत्रयघटितस्त्रिप्रदेशकः स्कन्धः आनुपूर्वीत्युच्यते चतुःप्रदेशिकस्स्कन्ध आनुपूर्वीत्युच्यते, एवमेव दशप्रदेशिकः स्कन्धः संख्येयप्रदेशिकोऽसंख्येयप्रदेशिकोऽनन्तप्रदेशिकश्च स्कन्ध आनुपूर्वीत्युच्यते, परमाण्वन्तरासक्तः परमाणुरेकोऽनानुपूर्वीत्युच्यते द्विप्रदेशिकश्चावक्तव्यकमित्युच्यते बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, बहवश्चैकाकिनः परमाणवोऽनानुपूर्व्यः, बहवो व्यणुकस्कन्धा अवक्तव्यकानीत्येवंरूपासंज्ञासंज्ञिसम्बन्धकथनमर्थपदप्ररूपणतेति भावः । आदिमध्यान्तरूपानुक्रमस्य यत्र सम्भवस्स एवानुपूर्वीशब्दवाच्यः, स च त्रिप्रदेशिकादिस्कन्धरूप एव, नैकः परमाणुस्तत्रादिमध्यान्तव्यवहाराभावात्, नापि व्यणुकस्कन्धः, तत्रापि मध्यव्यवहाराभावात्, आदित्वं हि यस्मात् परमस्ति न पूर्वं तत्त्वम् । अन्तत्वं च यस्मात् पूर्वमस्ति न परं तत्त्वम् । मध्यत्वञ्चाद्यन्तयोरन्तरत्वम् । यद्यपि व्यणुकस्कन्धे सम्पूर्णगणनानुक्रमाभावेऽपि परमाणुद्वयस्य परस्परं पूर्वपश्चाद्भावस्य सत्त्वेनानुपूर्वीत्वप्रसङ्गशङ्का स्यात्तथापि मध्यस्य कस्यचिदभावेनासांकर्येण पूर्वपश्चाद्भावोऽसिद्ध एव, परस्परापेक्षया पूर्वपश्चाद्भावस्य सत्त्वादेव न व्यणुकस्कन्धस्यानानुपूर्वीत्वमपि, तस्मादानुपूर्वीत्वेनानानुपूर्वीत्वेन वा वक्तुमशक्यत्वेनावक्तव्यक एव व्यणुकस्कन्धः । यद्यपि च संज्ञासंज्ञिसंबन्धकथनरूपाया एकवचनमाश्रित्य त्रिप्रदेशिकादिस्कन्ध आनुपूर्वीत्येवमभिधानादेवार्थपदप्ररूपणाया निष्पन्नत्वात्त्रिप्रादेशिकाः स्कन्धा आनुपूर्व इत्यादिबहुवचननिर्देशो व्यर्थस्तथापि आनुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थं नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थञ्च तन्निर्देशः । अत्र त्र्यणुक-चतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यक द्रव्येभ्यो बहूनि, तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि, तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीति बोध्यम् । अर्थपदप्ररूपणताया भङ्गसमुत्कीर्तन प्रयोजनं, अकृते संज्ञासंज्ञिनिरूपणे संज्ञामन्तरेण निर्विषयाणां भङ्गानां निरूपयितुमशक्यत्वादिति ॥२८॥