________________
अनुयोगद्वार दर्शनं तदेवात्मनो गुणस्तद्रूपं प्रमाणं दर्शनगुणप्रमाणं चक्षुरचक्षुरवधिकेवलदर्शनरूपचतुष्टयभेदवत् । तत्तदावरणक्षयोपशमादिसमुद्भूतानि तत्तल्लब्धिमतो जीवस्य तत्तदर्शनरूपाण्येतानि । सावद्यविरतिरूपं चारित्रं तदेवात्मनो गुणस्तद्रूपं प्रमाणं सामायिकादिभेदात्पञ्चविधम् । प्रपञ्चितमेतत्सर्वं तत्त्वन्यायविभाकरे सटीके । अनन्तधर्मात्मकवस्तुन एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं प्रस्थकदृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन च हेतुभूतेन त्रिविधम्, नैगमादयश्च विस्तरस्तत्त्वन्यायविभाकरे प्रपञ्चिताः, सामान्येन चात्राग्रे निरूपयिष्यन्ते । प्रस्थकदृष्टान्तश्च प्रस्थको धान्यमानहेतुद्रव्यविशेषः, यः कश्चित् पुरुषः प्रस्थकहेतुभूतकाष्टच्छेदाय कुठारकरो वनं गच्छन् पथि केनचित्पृष्टो क्व भवान् व्रजतीति प्रस्थकार्थं यामीति यद्ब्रवीति असौ नैगमव्यवहाराभ्यामविशुद्धाभ्यां प्रथमो वने उपचारः, न च प्रस्थकार्थं वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्याबाधितत्वाकथं प्रस्थकपदस्योपचार इति वाच्यम्, प्रस्थकयोग्यवृक्षप्राप्तिरूप-क्रियाविशिष्टवनस्यैव बोधात्, अधिकरणाकाङ्क्षोत्थापकक्व शब्दसामर्थ्यात् । न च तर्हि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमिति, वाच्यं, तथापि प्रस्थकेऽहं व्रजामीत्यत्र प्रस्थकपदस्य वने उपचारस्यावश्यकत्वात् । वृक्षं छिन्दन्तं दृष्ट्वा किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदनयोग्ये काष्ट उपचारः काष्ठस्य प्रस्थकं प्रति कारणत्वात्, अयमुपचारः पूर्वस्माच्छुद्धः नैगमव्यवहारयोः, पूर्वस्मात् किञ्चिदत्रासन्नत्वाद्विशुद्धत्वम् । एवमेवाग्रेऽपि पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भाव्या । एवं क्रमेण किं भवान् तक्ष्णोति, उत्किरति, उल्लिखति, करोतीति प्रश्नेषु प्रस्थकं तक्ष्णोमि उत्किरामि उल्लिखामि करोमीत्युत्तरेषु प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा भवन्ति, तथा च नैगमव्यवहारावतिशुद्धौ उत्कीर्णनामानं प्रस्थकपर्यायवन्तं प्रस्थकमाहतुः। सङ्ग्रहनयस्तु आसादितप्रस्थकपर्यायं धान्येन पूरितं प्रस्थकमाह, धान्यापूर्णमितरद्रव्याविशिष्टं विहाय नैगमोपदर्शितार्थ-संकोचकत्वेन स्वनाम्नोऽन्वर्थत्वसिद्धेः । अयं हि विशुद्धत्वात्कारणे कार्योपचारं कार्याकरणकाले च प्रस्थकञ्च नाङ्गीकुरुते, न चार्थक्रियाभावाभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति वाच्यम्, नैगममतार्थसंकोचनाय क्वचित्तथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदनुप्रवेशाभावात् । इत्थञ्चार्थक्रियाकारितदकारि प्रस्थकव्यक्तिभेदार्थं क्रियाऽजनकप्रस्थकव्यक्तौ प्रस्थकत्व-सामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद्दोषः । ऋजुसूत्रस्य मानं मेयञ्च द्वयमेव प्रस्थकस्वरूपम्, तन्मेयधान्ये च समवहिते एव प्रस्थकव्यवहारादेकतरविनाभावे तत्परिच्छेदासम्भवात् । किञ्च मेयारूढः