________________
अनुयोगद्वार
५३
गाय ते गशिम - भ } खेड-श-सो-हभ२-६श हभर-सो भर- (खेड साज) सो सो हभर (हश साज) झेटि (रोड) आहि.
સુવર્ણ વિગેરેના મેયના સરખું માપ તે પ્રતિમાન જેવી રીતે ગુંજા-સવાગુંજા તે કાકિની ત્રીજા ભાગની ન્યુન એવા બે ગુંજાથી નિષ્પાવ થાય છે. હવે ક્ષેત્રના પરિચ્છેદને બતાવે છે
अथ क्षेत्रस्य परिच्छेदकं दर्शयति
--
क्षेत्रान्तिमभागः प्रदेशः, अगुलवितस्तिरत्निकुक्षिधनुर्गव्यूतयोजन श्रेणिप्रतरलोकालोका विभागाः क्षेत्रस्य ॥१७॥
क्षेत्रेति, क्षेत्रस्य निर्विभागा ये भागास्तैरेकादिक्रमेण निष्पन्नं प्रदेशनिष्पन्नं, एकप्रदेशावगाढाद्यसंख्येयप्रदेशावगाढपर्यन्तं भावनीयम्, विभागे अङ्गुलं त्रिविधं, आत्माङ्गुलमुत्सेघाङ्गुलं प्रमाणाङ्गुलञ्चेति, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्ध्यत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलं इदञ्चानियतप्रमाणं, पुरुषाणां कालादिभेदेनानवस्थितमानत्वात्, एतदङ्गुलप्रमाणेन षडङ्गुलानि पादमध्यप्रदेश: इमौ युग्मीकृतौ वितस्तिः, द्वे वितस्तीरनिः रनिद्वयं कुक्षिः, कुक्षिद्वयनिष्पन्नं धनुरिति, षट् प्रमाणविशेषाः दण्डधनुर्युगनालिकाऽक्षमुशलाः, द्वे धनुःसहस्त्रे गव्यूतं चत्वारि गव्यूतानि योजनं, वक्ष्यमाणप्रमाणङ्गुलेन यद्योजनं तेनासंख्येया योजनकोटीकोट्यः संवर्त्तितसमचतुरस्त्रीकृतलोकस्यैका श्रेणिर्भवति, इयमेव श्रेणिस्तयैव गुणिता प्रतरः सोऽपि श्रेण्या गुणितो लोकः, अयमपि संख्येयेन राशिना गुणितस्संख्येया लोकाः, अनन्तैश्च लोकैरलोक इति, संवर्त्यलोकस्य घनीकरणमनुयोगद्वारादिभ्योऽवसेयम् । नारकादिशरीराणामुच्चैस्त्वनिर्णयार्थमङ्गलमुत्सेधाङ्गुलम्, तच्चानेकविधंतत्कारणस्य उत्तरोत्तरमष्टभिर्गुणितस्य परमाणुत्रसरेणुरथरेणुवालाग्रलिक्षायूकायवानामनेकविधत्वात् । परमाणुर्हि द्विविधः, सूक्ष्मो व्यावहारिकश्च । सूक्ष्मश्च 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्चे'ति लक्षितः परमाणुर्निश्चय - नयाभिमतो निर्विभागः परमाणुः, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेवायं नयो व्यपदिशति, नैश्चयिकोऽत्र परमाणुर्न विवक्षितः किन्तु व्यावहारिक एव । व्यवहारनयो हि तादृशानेकपरमाणुनिष्पन्नोऽपि यश्शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, एभिरष्टभिः श्लक्ष्णश्लक्ष्णिका, आभिरष्टाभिरूर्ध्वरेणुः, अष्टभिरेभिस्त्रसरेणु, अष्टाभिश्चैभिः रथरेणुरित्येवं द्रष्टव्यम् । प्रमाणाङ्गुलन्तु सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं, परमप्रकर्षरूपं