SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार ____ एकेति, एकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिक: प्रदेशत्रयघटितः त्रिप्रदेशिक इत्येवं यावदनन्तैः प्रदेशैस्सम्बद्धोऽनन्तप्रदेशिकः, ननु सर्वेषामेषां द्रव्यत्वेन प्रमेयत्वात्कथं प्रमाणत्वमिति चेन्मैवम्, प्रस्थकादिप्रमाणेन मितस्थ पुञ्जीकृतस्य द्रव्यादेर्लोके प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीत्यादिव्यवहारेण द्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यत्वात्, तत्तत्प्रदेशनिष्पन्नत्वलक्षणं स्वरूपं करणव्युत्पत्त्या मुख्यं प्रमाणं द्रव्यन्तु तत्स्वरूपयोगादुपचारेण, भावव्युत्पत्तौ तु प्रमितिर्मुख्यं प्रमाणं, प्रमाणप्रमेये चोपचारत इति । धान्यमानादेस्स्वरूपन्तु न स्वगतप्रदेशाश्रयेण, किन्तु मानोन्मानादिपञ्चविधविभागेन, तत्र मानं धान्यविषयं रसविषयञ्च, धान्ये असृतिप्रसृत्यादिः, अवाङ्मुखहस्ततलरूपाऽसृतिः, तत्परिच्छिन्नं धान्यमपि तथा, असृतिद्वयनिष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, एवं सेतिकाकुडवप्रस्थकादयो विज्ञेयाः । रसो मद्यादिस्तद्विषयं मानं रसमानप्रमाणं, धान्यस्याद्रवत्वाच्छिखा भवति, रसस्य द्रवरूपत्वान्न शिखासम्भवः, अतो बहिःशिखाभावाद्धान्यमानाच्चतुर्भागवृद्धियुक्तं सेतिकादेर्यत्क्रियते तद्रसमानप्रमाणमुच्यते, षट्पञ्चाशदधिकशतद्वयपलमाना मणिकानाम रसमानं तस्या एव द्वात्रिंशत्तमभाग-वतित्वादष्टपलप्रमाणा द्वात्रिंशिका, मणिकाया एव षोडशभागवत्तित्वात् षोडशपलप्रमाणा षोडशिका इत्यादिमानमनुयोगद्वारेण भाव्यम् । यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, यथा पलस्याष्टमांशोऽर्धकर्षः, पलस्य चतुर्भागः कर्षः पलस्यार्धमर्धपलमित्यादि । अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादिः, चतुर्विशत्यङ्गुलमानो हस्तस्तच्चतुभिर्दण्ड-धनुर्युगनालिकाक्षमुशलरूपाः षड् संज्ञा लभ्यन्ते, वास्तु हस्तेन मीयते कृषिकर्मादिविषयभूतं क्षेत्रं दण्डेन मीयते, मार्गविषये धनुरेव मानं, कूपादि नालिकया मीयते, एवं युगादिरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्य इति नैकेन चरितार्थत्वादन्यतरोपादानं व्यर्थमिति भाव्यम् । गण्यते तद्गणिमं यथा एकं दशं शतं सहस्रं दशसहस्रं शतसहस्रं दशशतसहस्रं कोट्यादि । मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं यथा गुञ्जा, सपादा गुञ्जा काकिणी, त्रिभागोनगुञ्जाद्वयेन निष्पाव इत्यादि ॥१६।। __'द्रव्यादि प्रमाणानि' मे ५६म द्रव्याहि समय २८ हि थी क्षेत्र भने सानु ગ્રહણ કરવું. પ્રદેશ અને વિભાગથી દ્રવ્યો વિગેરે ત્રણનો બોધ કેવી રીતે થાય તે કહે છે. દ્રવ્યના પ્રદેશો એક-બે-ત્રણ અણુઓ છે અને દ્રવ્યોના વિભાગ માન-ઉન્માન-અવમાનमि-प्रतिभान.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy