________________
४५६
सूत्रार्थमुक्तावलिः स्थितप्रत्याख्यानप्रदातॄन् साधूनभूतदोषोद्भावनतोऽभ्याख्यानं ददति, यतः संसारिकाः खलु प्राणिनः परस्परजातिसङ्क्रमणभाजोऽतस्त्रसा: स्थावरत्वेन स्थावराश्च त्रसत्वेन प्रत्यायन्ति, तेषाञ्च त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघातार्ह भवति, तीव्राध्यवसायोत्पादक त्वाल्लोकगर्हितत्वाच्च, श्रावकेण च स्थूलप्राणातिपातविरमणं कृतं तन्निवृत्त्या तत्र स्थानमघात्यम्, स्थावरकायाच्चानिवृत्तः स इति तद्योग्यतयातत्स्थानं घात्यम्, तथा वर्तमानकालवाचिभूतशब्दोपादानमपि केवलं व्यामोहाय, भूतशब्दो ह्युपमानेऽपि वर्तते, देवलोकभूतं नगरमिदं न देवलोक एवेत्यादौ, तथात्रापि त्रससदृशानामेव प्राणातिपातनिवृत्ति कृता स्यात्, न तु त्रसानाम् । तादर्थेऽपि भूतशब्दो दृश्यते शीतीभूतमुदकमित्यादौ, तथाऽत्र त्रसभूता इत्यस्य त्रसत्वं प्राप्ता इत्यर्थ: स्यात्, तथा च सति त्रसशब्देनैव गतार्थत्वात् पौनरुक्त्यं स्यात्तथापि भूतशब्दोपादाने घटभूतो घटभूत इत्यादि प्रयोगप्रसङ्गः स्यात्, नन्वेवं कतरान् प्राणिनो यूयं वदथ किं वसा एव ये प्राणिनस्ते वसा इति किं वाऽन्यथा, उच्यते यान् प्राणिनो यूयं त्रसत्वेनेदानीमाविर्भूतान्नातीतान्नाप्येष्यान् वदथ त्रसाः प्राणिन इति तानेव वयं त्रसान् वदामः केवलं यूयं त्रसभूता इति वदथ, शब्दभेद एव केवलमस्त्यत्र, न त्वर्थभेदः कश्चित्, एवं व्यवस्थिते कोऽयं भवतां व्यामोहः, एकस्य पक्षस्याभिनन्दनेऽपरस्य चाक्रोशने, उभयोरपि पक्षयोः समानत्वात्, केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति । न वा साधोस्तदन्येषां वधानुमतिः, स्थावरपर्यायापन्नं व्यापादयतो वा व्रतभङ्गः-गुरुकर्मणां प्रव्रज्यां कर्तुमसमर्थानां तद्व्यतिरेकेण धर्मचिकीर्षुणां धर्मोपदेशप्रवणस्य साधोरग्रतः प्रथमं गृहस्थयोग्यं देशविरतिलक्षणं श्रावकधर्ममनिन्द्यमनुपालयामस्ततः पश्चादनुक्रमेण श्रमणधर्ममित्यवसायं प्रकटयतां नान्यत्राभियोगेन व्यवस्थां श्रावयन्ति ते । स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चैवमादिनाऽभियोगेन त्रसं व्यापादयतोऽपि न व्रतभङ्गः । तदेवं देशविरतानां त्रसप्राणातिपातविरमणव्रतं कुशलहेतुत्वात् कुशलमेव, गृहपतिचोरविमोक्षणदृष्टान्तोऽत्र भाव्यः । स्थावरपर्यायापन्नत्रसव्यापादने बहिःस्थनागरिकव्यापादन इव यो व्रतभङ्ग उक्तस्तदपि न युज्यते, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति तदा त्रससम्भारकृतेन कर्मणा जीवास्त्रसा इति व्यपदिश्यन्ते न तदा कथञ्चित्स्थावरत्वव्यपदेशः, संभारो नामावश्यं तदा कर्मणो विपाकानुभवेन वेदनम् । त्रसकायस्थितिकं कर्म यदा परिक्षीणं भवति ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति तच्च कर्म जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्सातिरेकसहस्रद्वयसागरोपमपरिमाणम् । तथा चापराण्यपि तत्सहचरितानि कर्माणि