________________
४४८
सूत्रार्थमुक्तावलिः प्रेक्षेति, ननु तीर्थकरो रागद्वेषभययुक्तः, आगन्तागारादौ शयनादिक्रियाऽकरणात्, तत्र प्रभूतशास्त्रविशारदानां सम्भवेन पराजयशङ्कासद्भावात्, कदाचिम्लेच्छविषयं गत्वा धर्मदेशनाऽकरणात्, आर्यदेशेऽपि क्वचिदेव करणाच्च रागद्वेषभययुक्ततेति शङ्कायामाह प्रेक्षेति, भगवान् हि प्रेक्षापूर्वकारी, अतो नानिच्छाकारी भवति, यो ह्यप्रेक्षापूर्वकारी सोऽनिष्टमपि स्वपरनिरर्थकमपि कृत्यं कुर्वीत, सर्वज्ञः सर्वदर्शी परहितैकरतो भगवान् कथं स्वपरात्मनोनिरुपकारकं कुर्यात्, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते, अपि तु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तत्प्रभाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाद्यभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्त्तते ततः कुतस्तस्य भयेन प्रवृत्तिः स्यात्, न चासौ वीतरागो धर्मकथां किमिति करोतीति शङ्कयम्, तीर्थकृन्नामकर्मणः क्षपणाय सर्वहेयधर्मदूरवत्तिनामार्याणामुपकाराय च तत्करणात् । तत्रापि विनेयासन्नं गत्वाऽगत्वा वा यथा भव्यसत्त्वोपकारो भवति तथैव धर्मदेशनाकरणान्न तु रागद्वेषाभ्याम् । अनार्यास्तु न सम्यग्दर्शिनः, असौ भगवानित्येतावन्मात्रस्यापि ज्ञानस्याभावाद्दीर्घदर्शनाभावाच्च, ते हि शकयवनादयो वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमतः सद्धर्मपराङ्मुखेषु तेषु भगवान्न याति न तु तव्देषादिबुद्ध्या । समस्ताः प्रावदुकास्तु भगवन्मुखमप्यवलोकितुं न समर्था वादस्तु दूरोत्सारित एव, एवञ्च यत्रैव स्वपरोपकारं केवलालोकेन पश्यति तत्रैव धर्मदेशनां विधत्ते । न च तस्य वणिगिव लाभापेक्षया धर्मदेशना प्रसक्तेति वाच्यम्, दृष्टान्तानुपपत्तेः, किं स देशतो दृष्टान्तः, सर्वसाधर्म्यण वा, नाद्यः क्षत्यभावात्, वणिग्वदुपचयप्रेक्षया प्रवृत्त्यङ्गीकारात् । न द्वितीयो भगवान् हि विदितवेद्यः सर्वपरित्राणशीलः सर्वथा सर्वसावद्यानुष्ठानविधुरः, वणिक् च न तथाविधः, चतुर्दशविधजन्तुसमूहोपमर्दनक्रियाकारित्वात्, वित्तेच्छयेतस्ततः परिभ्रमणात् सातगौरवादिषु मूच्छितत्वात्, लाभार्थं प्रवृत्तस्यापि तदसिद्धेः सिद्धेऽपि लाभेऽचिरेणैव विनाशाच्च कथं निविवेकिनां वणिजां सर्वसाधर्म्य साद्यनन्तलाभवता भगवता सङ्गच्छत इत्येवं गोशालको निरस्त आर्द्रकेण ॥७९॥
સમાધાન પછી કહે છે. સૂત્રાર્થ:- ઇચ્છાકાર વગર જ કરવાનો અભાવ હોવાથી) વિચારણાપૂર્વક જ કરતા હોવાથી.
ટીકાર્ય :- જો તીર્થકરો રાગ દ્વેષ ભયથી યુક્ત હોય, મકાન વગેરેમાં આવતા સૂવા વગેરેની ક્રિયા કરવાથી ત્યાં ઘણા શાસ્ત્ર વિશારદોનો સંભવ હોવાથી પરાજયની શંકા હોવાથી કદાચ