________________
सूत्रकृतांग
४३१
तदेवमेत आहारेष्वगुप्ता अत एवैषां कर्मबन्धोऽवश्यम्भावीति तत्प्रत्याख्यानमुत्तरगुणसम्पादनाय सम्प्रति प्रदर्शयति
अप्रतिहतप्रत्याख्यातपापकर्मा कर्मबन्धकः ॥६९॥
अप्रतिहतेति, आत्मा ह्यनादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगतः स्वभावादेवाप्रत्याख्यानी भवति, स एव च कुतश्चिन्निमित्तात् प्रत्याख्यान्यपि भवति, तथाऽक्रियाकुशलो मिथ्यात्वोदयसंस्थितोऽपरप्राणिदण्डो रागद्वेषकलुषितो हिताहितप्राप्तिपरिहारविकलो भावसुप्तोऽप्रत्याख्यानक्रियत्वादेवाविचारितमनोवाक्कायश्च भवति, तदेवम्भूतो निविवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति तस्य चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते । नन्वव्यक्तविज्ञानस्य कथं पापं कर्म बध्यते, पापकर्म हि कर्माश्रवद्वारभूतैर्मनोवाक्कायैर्बध्यते न त्वेकेन्द्रियविकलेन्द्रियादेः कर्मबन्धसम्भवः, प्राणिघातकस्य मनोवाक्कायव्यापारस्य तत्राभावात्, अन्यथा मुक्तानामपि कर्मबन्धो भवेत्, तस्मान्नाव्यक्तविज्ञानस्य कर्म बध्यते किन्तु प्रस्फुटविज्ञानस्येति चेन्न, अप्रतिहतप्रत्याख्यातपापकर्मत्वात्, प्रतिहतं-विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, अतथाविधश्चाप्रतिहतप्रत्याख्यातपापकर्मा, तत्सद्भावाच्चैकेन्द्रियविकलेन्द्रियादीनां मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं तद्भावात् प्राणातिपातादिदोषवन्तस्ते कथं न स्युः, तथाविधदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि कर्मबन्धका एव यथा हि वधकोऽवसरापेक्षी वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्यसावपि बालोऽस्पष्टविज्ञानो निवृत्तेरभावेन योग्यतया सर्वेषां प्राणिनां व्यापादको भवत्येव, तत्प्रत्ययिकेन च कर्मणा बध्यत एव । एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यम् । तथा चाप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानुबन्धी, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वात्, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवद्यथाऽऽसौ वधपरिणामादनिवृत्तत्वाद्वध्यस्यामित्रभूतस्तथाऽऽत्मापि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्डः, यत एवं तस्मात् पापानुबन्धीति पञ्चावयवाः । ननु सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इत्यसिद्धम्, चतुर्दशरज्ज्वात्मके लोके प्राणिनामनन्तत्वेन देशकालस्वभावविप्रकृष्टत्वेन न दृष्टा न श्रुता न वा प्रातिभेन स्वयमेव विज्ञाता इति कथं तद्विषयस्तस्यामित्रभावः कथं वा प्रत्येकं वधं प्रति चित्तसमाधानं भवेत्, न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति चेन्मैवम्, तथापि देशकालस्वभावविप्रकृष्टेषु तेष्वमुक्तवैरत्वात्, अस्याविरतिप्रत्ययत्वात्, एवञ्च य इमे