________________
४१०
सूत्रार्थमुक्तावलिः अथ नियतिवादं निराकरोतिनियतिकृतं सर्वमनिष्टस्यापि कर्तृत्वादिति चेन्न, तस्या एवाभावात् ॥५७॥
नियतीति, सर्वं लोके नियतिकृतमेव, न तत्र कालो वेश्वरो वा पुरुषकारो वा प्रकृतिर्वा कारणम्, समानक्रियाणामपि कस्यचिदेवार्थसिद्धेः, यदि हि नियतिप्रेरितं जगन्न स्यात्, कश्चिन्नियतवादी कश्चिदनियतवादी कश्चित्क्रियावादी कश्चिदक्रियावादीति न तुल्यता भवेत्, कीन्तु नियतिवशेनैव तथावादाश्रयणात्समानता, पुरुषकारादिकृतत्वे च दुःखोत्पादकक्रियासमारम्भमात्मा न कुर्यात्, न हि कस्यचित्स्वात्माऽनिष्टः, येन तस्य परितापादिजनकमनुष्ठानं विदध्यात्, किन्तु नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, तस्मात्सर्वे प्राणिनो नियतित एव तत्र तत्र नानाविधशरीरसम्बन्धं ततो वियोगं चानुभवन्ति, न तु कर्मादिनेति । नियतौ प्रमाणाभावं विचिन्त्य तन्मतं दूषयति, तस्या एवाभावादिति, नियतेरेव नियुक्तिकतयाऽभावादित्यर्थः, तथा हि-किमसौ नियतिः स्वत एव नियतिस्वभावा, अन्यया वा, स्वत एवेति चेत्कुतो न पदार्थानामेव तथा स्वभावत्वम्, येन बहुदोषा नियतिराश्रयणीया भवेत् । अन्यया सा नियम्यत इति चेत्कि न पश्यति भवाननवस्थाम् । किंच नियतिनियतित्वादेव नियतस्वभावा, न तु नानास्वभावा, तथा च तस्या एकत्वेन तत्कार्यमप्येकाकारं स्यात्, एकाकारकारणजन्यस्यानेकाकारत्वादर्शनात्, तस्मान्न नियतिर्युक्ति भिर्विचार्यमाणा घटते, नानावादाभ्युपगन्तॄणां समानत्वमपि यदुक्तं तदपि प्रतीतिबाधितमेव, भिन्नभिन्नवादानां हि कथमेकता स्यात्, एकनियतिप्रयुक्त्वादिति चेन्न जगद्वैचित्र्यासम्भवात्, तस्मान्न नियतिवादः श्रेयान्, ताञ्च श्रद्दधानाः कामोपभोगेषु सक्ता एव दुष्पारसंसारपङ्कनिमग्ना न कदापि पारयायिन इति ॥५७||
હવે નિયતિવાદનું નિરાકરણ કરે છે.
સૂત્રાર્થ:- નિયતિએ કરેલ બધુ અનિષ્ટ છે. કેમકે કર્તાવડે કરાયેલ હોવાથી એ વાત બરાબર નથી કેમકે તેનો જ અભાવ હોવાથી.
ટીકાર્થઃ- સર્વલોકમાં બધુ નિયતિ વડે જ કરાયું છે. તેમાં કાળ કે ઈશ્વર કે પુરુષાર્થ કે પ્રકૃતિ કારણ નથી. સમાન ક્રિયાઓની કોઇકથી અર્થ સિદ્ધિ થતી હોવાથી જો નિયતિ પ્રેરિત જગત ન હોય તો કોઇક નિયતવાદી, કોઈક અનિયતવાદી, કોઈક ક્રિયાવાદી, કોઈક અક્રિયાવાદી એ પ્રમાણે સમાનતા (તુલ્યતા) ન થાય. પરંતુ નિયતિના વશથી જ તથા વાદનો આશ્રય કરવાથી સમાનતા થાય છે અને પુરુષકાર એટલે પુરુષાર્થ વગેરે કરે છતે દુઃખોત્પાદક ક્રિયાનો સમારંભ