________________
सूत्रकृतांग
अथोदीर्णाः प्रतिलोमोपसर्गाः सम्यक् सोढव्या इत्याहप्रत्युपसर्गासहिष्णुः कश्चिद्भ्रश्यति निन्दति च ॥२३॥
३४१
प्रत्युपसर्गेति, उपसर्गो हि द्विविधः, औघिकौपक्रमिकभेदात्, अशुभकर्मप्रकृतिजनितः औघिको भावोपसर्गः, अनुदयप्राप्तानां कर्मणामुदयप्रापणमुपक्रमः, यद्द्द्रव्योपयोगाद्येन वा द्रव्येणासातवेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति स औपक्रमिक उपसर्गः, यतीनां मोक्षाङ्गसंयमस्थानां संयमस्य प्रतिबन्धकत्वादसावेवात्राधिक्रियते, स च चतुर्विधः दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति, दैविको हास्यप्रद्वेषविमर्शपृथग्विमात्रातश्चतुर्धा, मानुषोऽपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनातश्चतुर्धा; तैरश्चश्च भयप्रद्वेषाहारापत्यसंरक्षणतश्चतुर्धा, आत्मसंवेदनोऽपि घट्टनातो लेशनातः स्तम्भनातः प्रपाताच्चेति चतुर्धा, वातपित्तश्लेष्मसंनिपातजनिताश्चेति वा, तथा दिव्यादिश्चतुर्विधोऽप्यनुकूलप्रतिकूलभेदादष्टधा । तत्र यथा कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरंमन्य आत्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् न मत्कल्पः परानीके कश्चित्सुभटो वर्त्तत इति तावद्गर्जति यावत्पुरोवस्थितं प्रोद्यतासिं जेतारं न पश्यति यदा च परानीकसुभटेन चक्रकुन्तादिना विक्षो भवति तदा दीनो भङ्गमुपयाति तथाऽभिनवप्रव्रजितः परीषहैरस्पृष्टः प्रव्रज्यायां किं दुष्करमित्येवं गर्जन्नभिनवप्रव्रजितत्वादेव साध्वाचारेऽप्रवीणः शूरंमन्यो भवति यावत्संयमं रूक्षं न भजते तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति यथा हेमन्तमासे सहिमकणो वायुर्लगति ग्रीष्मे च महताभितापेन व्याप्तो विमनस्कः पिपासुर्दैन्यमुपयाति ततश्च तत्प्रतीकारहेतूननुस्मरति व्याकुलचेताश्च संयमानुष्ठानं प्रति विषीदति, एवं यतीनां परदत्तेनैवैषणीयेनाहारादिनोपभोगो भवति, क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अल्पसत्त्वस्य याञ्चापरीषहो दुःखेन सोढव्यः, अनार्यकल्पैरुक्तमेते यतय आविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्ताः पूर्वाचरितकर्मदुःखिनस्तत्फलमनुभवन्तीति तथैते कृष्यादिकर्म कर्तुमसमर्था यतयः संवृत्ताः पुत्रदारादिभिः परित्यक्ता निर्गतिकाः प्रव्रज्यामभ्युपगता इति च निशम्य लघुप्रकृतयो विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, एवं वधदंशमशकादिष्वपि भाव्यम्, महासत्त्वास्तु गताभिमाना ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्ति, मिथ्यात्वोपहतदृष्टयस्तु रागद्वेषाक्रान्तत्वात् साधुविद्वेषिणो नानाविधैरसदालापैः साधुं कदर्थयन्ति ॥ २३ ॥