________________
३२६
सूत्रार्थमुक्तावलिः पुनः केषाञ्चिदज्ञानिनां मतमादर्शयतिब्रह्मेश्वरादिकृतो लोक इति प्रमाणविरुद्धं केचिदाहुः ॥१३॥
बह्मेति, केचिदेवमाहुः, ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्, तेन च प्रजापत्यादिक्रमेण सकलं जगत्सृष्टमिति अन्ये तु तनुभुवनादिकं बुद्धिमत्कारणपूर्वकं कार्यत्वात्, संस्थानविशेषवत्त्वाद्वा, घटादिवदिति मानमुपन्यसन्त ईश्वरकृतं जगदाहुः । अपरे च सत्त्वरजस्तमसां साम्यावस्थालक्षणया प्रकृत्या महदङ्कारादिक्रमेण जगदुत्पत्तिमभिदधति, एवंरूपाः सर्वे वादा मृषा वादा एव, प्रमाणैर्विरुद्धत्वात् । अयं हि लोको द्रव्यार्थतया न निर्मूलतः कदापि विनश्यति, अतो नादितः केनचित् क्रियते, अपि तु लोकोऽयमभूद्भवति भविष्यति च । न हि स ब्रह्मादिभिः कृत इत्यत्र किञ्चित् प्रमाणमस्ति, किञ्चासौ ब्रह्माऽनुत्पन्नो न तं सृजति, खरविषाणस्येवासत्त्वेन कारणत्वासम्भवात् स्वत उत्पन्नो यदि सृजेत् तदा लोकोऽपि स्वतः कुतो नोत्पद्यते, यदि त्वन्यत उत्पन्नः सृजति तीनवस्था, यदि सोऽनादिस्तर्हि लोकोऽपि तथा भवतु को दोषः । किञ्चासावनादिः सन्नित्यस्तर्हि क्रमयोगपद्याभ्यामर्थक्रियाऽसम्भवान्न कर्ता भवेत्, यदि चानित्यस्तदोत्पत्त्यनन्तरं विनाशित्वात्स्वस्यैव त्राणायासमर्थतया कुतोऽन्यत्करणं प्रति तस्य व्यापृतिर्भवेत् । अपि चासौ यद्यमूर्तस्तदाऽऽकाशस्येवाकर्ता भवेत् । मूर्तश्चेत् प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य सकलजगत्कर्तृत्वं कथं स्यादिति न ब्रह्मकर्तृत्ववादः प्रमाणसिद्धः । ईश्वरकर्तृत्वानुमानमपि न प्रमाणम्, व्याप्त्यसिद्धेः, कार्यस्य कारणपूर्वकत्वमात्रेणैव व्याप्तेः, न तु तथाविधविशिष्टकारणपूर्वकत्वेन, कार्य-विशेषोपलब्धौ कारणविशेषप्रतिपत्तिस्तु गृहीतप्रतिबन्धस्यैव भवति, न त्वत्यन्तादृष्टे तथा प्रतीतिः, न हि सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन हेतौ सम्बन्धो गृहीतः । एवं घटादिसंस्थानदर्शनवत् पर्वतादावपि संस्थानदर्शनान्न बुद्धिमत्कारणपूर्वकत्वस्य सिद्धिः, संस्थानमात्रस्य बुद्धिमत्कारणपूर्वकत्वासिद्धेः, अन्यथा मृद्विकारत्वाद्धटवद्वल्मीकस्यापि कुम्भकारकृतिः सिद्ध्येत्, तस्माद्यदेव संस्थानं बुद्धिमत्कारणपूर्वकत्वेन गृहीतं तदेव तथाविधकारणानुमापकं न संस्थानमात्रम्, किञ्च घटादिसंस्थानानि कुम्भकारकर्तृतया लक्षितानि, नेश्वरकर्तृतया, तत्रापि तस्य निमित्तत्वे दृष्टहानिरदृष्टकल्पना च स्यात् । अपि च घटादेः कर्ताऽनित्याव्यापित्वेनोपलब्धस्तदृष्टान्तेन साध्यमानस्तथाविध एव कर्ता सिद्ध्येत्, अन्यथाभूतस्य च दृष्टान्ताभावतो व्याप्तिसिद्धिर्न भवेत्, तस्मान्नेश्वरकर्तृकत्वं लोकस्येति तद्वादो मिथ्यावाद एव । तथा प्रधानादिकृतो लोक इत्यपि प्रमाणविरुद्धम्, तस्यामूर्त्तत्वे मूर्तस्य न तत