________________
३२४
सूत्रार्थमुक्तावलिः अथ ज्ञानावरणादिकर्मचिन्तनविधुराणां क्रियावादिनां मतं निराकरोतिचतुर्विधं कर्म नोपचीयत इति केचित्तन्न, तत्रापि कर्मबन्धात् ॥१२॥
चतुर्विधमिति, परिज्ञोपचितमविद्योपचितमीर्यापथं स्वप्नान्तिकञ्चेति चतुःप्रकारं कर्मबन्धं नेच्छन्ति केचित्, तत्र प्रथमं यथा यः कश्चित् क्रोधादिनिमित्तान्मनोव्यापारमात्रेण प्राणिनो व्यापादयति न तु कायेन तद्व्यापारे वर्त्तते न तस्य कर्मोपचयो भवतीति । द्वितीयं यथाऽजानानः कायव्यापारमात्रेण प्राणिनं यो हिनस्ति तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । तृतीयञ्च गमनविषयं यथा व्रजतोऽध्वनि यथाकथञ्चिदनभिसन्धेर्यत्प्राणिव्यापादनं भवति न तत्र कर्मबन्ध इति । चतुर्थञ्च स्वप्न एव लोकोत्तया स्वप्नान्तः तत्र भवं तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावः तथा कर्मणोऽपीति । कर्मबन्धस्तु हन्यमानो यदि प्राणी स्यात्, हन्तुश्च यद्ययं प्राणीत्येवं ज्ञानमुत्पद्येत, तथैनं हन्मीत्येवमपि यदि बुद्धिः स्यात्, एतेषु सत्सु यदि कायचेष्टा प्रवर्त्तते, तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतमाभावेऽपि न हिंसा न वा कर्मचयः । किन्तूक्तेन चतुविधेनापि कर्मणा स्पर्शमात्रानुभवयोग्यं कर्म भवति न तु तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशाटनात्, अत एवोपचयाभाव उक्तो न त्वत्यन्ताभाव इति केषाञ्चिन्मतं तन्निराकरोति तन्नेति, तत्रापीति, केवलमनःप्रद्वेषादिस्थलेऽपीत्यर्थः, मन एव हि कर्मोपचये प्रधानं कारणम्, मनोरहितकेवलकायव्यापारसत्त्वे कर्मोपचयाभावस्य तैरप्यङ्गीकृतत्वात्, तथा चान्वयव्यतिरेकाभ्यां मनः प्रधानं कारणम्, न च कायचेष्टारहितमकारणम्, भावशुद्ध्या निर्वाणमधिगच्छतीति भणता भवता मनस एवैकस्य प्राधान्यस्वीकारात्, तथा क्लिष्टमनोव्यापारः कर्मबन्धायेति च स्वीक्रियते तथा च कथं न तत्र कर्मबन्धः । ईर्यापथेऽप्यनुपयुक्तगमने क्लिष्टचित्तत्वात्कर्मबन्धो भवत्येव, उपयुक्तगमने त्वप्रमत्तत्वादबन्धक एव, स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, तस्माच्चतुष्टये कर्मोपचयाभाववादिनो विपरीतानुष्ठानतया प्राकृतपुरुषसदृशा एव न मोक्षसुखसङ्गिनोऽनन्तमपि कालं जन्मजरामरणादिक्लेशमनुभवन्त एवासत इति ॥१२॥
હવે જ્ઞાનાવરણાદિ વગેરે કર્મના ચિંતન રહિત ક્રિયાવાદીઓના મતનું નિરાકરણ કરે છે.
સૂત્રાર્થ - ચાર પ્રકારના કર્મો સ્વીકારતો નથી. એ પ્રમાણે કેટલાક કહે છે - તે વાત બરાબર નથી. કેમકે ત્યાં પણ કર્મબંધ થતો હોવાથી.