________________
आचारांगसूत्र
२७५
अथ भाषणनियममाहविदितवचनविधानो भाषासमितो गर्दासावधारणादिभाषां त्यजेत् ॥ ७७ ॥
विदितेति, विज्ञातैकवचनादिषोडशविधवचनविभागः पूर्वसाधुभिरनाचीर्णपूर्वानभाषणयोग्यान् वागाचारान् विदित्वेति वेत्यर्थः तत्र षोडशविधवचनानि, यथा एकवचनं वृक्ष इति, द्विवचनं वृक्षाविति, बहुवचनं वृक्षा इति, स्त्रीवचनं वीणा कन्येत्यादि, पुंवचनं घट: पट इत्यादि, नपुंसकवचनं पीठं कुलमित्यादि, अध्यात्मवचनं हृदयगतपरिहारेणान्यद्भणिष्यतस्तदेव सहसा यदापतितम्, प्रशंसावचनं यथा रूपवती स्त्रीत्यादि, अप्रशंसावचनं यथेयं रूपहीनेत्यादि, प्रशंसाप्रशंसावचनं यथा कश्चिद्गुणः प्रशस्यः कश्चिन्निन्द्यो रूपवतीयमसद्वृत्तेत्यादि, अप्रशंसाप्रशंसावचनं यथाऽरूपवती स्त्री किन्तु सद्वृत्तेत्यादि, अतीत वचनं कृतवानित्यादि, वर्तमानवचनं करोतीत्यादि, अनागतवचनं करिष्यतीत्यादि, प्रत्यक्षवचनमेष देवदत्त इत्यदि, परोक्षवचनं स देवदत्त इत्यादि, अमीषां वचनानां मध्य एकार्थविवक्षायामेकवचनमेवार्थद्वयविवक्षायां द्विवचनमेवेत्येवं यथाविवक्षं ब्रूयात् । एवं भाषाश्चतस्रः, सत्या, यथा गौगौरेवाश्वोऽश्व एवेति यथार्थरूपा, मृषा अयथार्था, यथा गौरश्वोऽश्वो गौरित्यादिरूपा, सत्यामृषा यत्र किञ्चित्सत्यं किञ्चिच्च मृषा भवति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिधानम् । असत्यामृषा योच्यमाना न सत्या न मृषा नापि सत्यामृषा आमंत्रणाऽऽज्ञापनादिका साऽसत्यामृषेति, तत्र मृषा सत्यामृषा च तावत्साधुभिर्न वाच्या, सत्यामपि सावद्यां न भाषेत साधुः, तथाऽनर्थदण्डप्रवृत्तिलक्षणक्रियोपेतां चर्विताक्षरां चित्तोद्वेगकारिकटुकां निष्ठुरां मर्मोघ्दाटिनी कर्माश्रवकरी छेदनभेदनादिकारिणीञ्च सत्यामपि न ब्रूयात् किन्तु या भाषा सत्या या च मृषाऽपि कुशाग्रबुद्ध्या विचार्यमाणा सत्या भवति, यथा मृगदर्शने सत्यपि लुब्धकादेरपलापः, या चासत्यामृषा तामसावद्यां विचार्य भाषेत । क्रोधेन मानेन मायया लोभेन प्रयुक्तो न वदेत्, न वा सावधारणं वचो वदेत्, तथा नभोदेवो गर्जति देवः प्रवृष्टो देवो वर्षा पततु मा वा, शस्यं निष्पद्यतां मा वा, जयत्वसौ राजा मा वा, विभातु रजनी मा वा, उदेतु सूर्यो मा वेत्यादिरूपं वचनं न वदेत्, किन्त्वन्तरिक्षं मेघ इत्यादिकया कारणे सति भाषेत देशान्तरेऽवज्ञासूचकमपि वचो न वदेत्, आमंत्रयन्नशृण्वन्तं पुमांसं अमुक आयुष्मन्! श्रावक! धर्मप्रिय! इत्येवं वदेत्, तथा कुष्ठ्यादिरोगिणं कुष्ठी मधुमेहीत्येवं नामग्राहं न वदेत् न वा विकलावयवं काणः खञ्ज इत्येवमामंत्रयेत्, प्राकारादीनि भवता सुष्टु कृतानि कर्त्तव्यमेवैतद्भवद्विधानामित्यादिरूपां भाषामधिकरणानुमोदनान्न भाषेत । किन्तु सति प्रयोजने