________________
२०
सूत्रार्थमुक्तावलिः
___अथ न्यायप्रकाशसमलङ्कृतत्त्वन्यायविभाकरादिग्रन्थेभ्यो विदितस्वपरसमयसाराणां सुनिर्मलचरणधर्मविभूषितानामनूढयोगानां भगवदर्हद्वचनस्यानुयोगकरणाभिलाषुकाणां विनेयानामनायासेन तत्र प्रवृत्तिसम्पादनार्थं पूर्वमहर्षिभिरतिगम्भीरतयोपक्रमादिद्वारै-विचारितत्वेऽपि तेषां अल्पप्रज्ञानामसुज्ञानत्वेन सौलभ्यतया तद्बोधयिषयोपक्रमादिद्वारवर्णनपुरस्सरं मूलकृताऽनुपमागमभक्तिजनितौत्सुक्येनानुयोगं कर्तुमारभमाणेन परमनिःश्रेयसनिदानं प्रत्यूहव्यूहनिध्वंसकं ज्ञानमादावुपनिबध्यते--
मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च ज्ञानानि ॥१॥
मतीति, मननं मतिः, मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति वा मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तावगमविशेषः । श्रवणं श्रुतमभिलापप्राप्तार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रूयते तदिति श्रुतं प्रविशिष्टार्थ-प्रतिपादनफलं वाग्योगमात्रं भगवन्मुखान्निसृष्टं आत्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते कारणे कार्योपचाराच्च श्रुतज्ञानम् । शृणोतीति वा श्रुतमात्मनि तदनन्यत्वात् । अवधानवधिरात्मनस्साक्षादर्थग्रहणमिन्द्रियादिनिरपेक्षम्, अव्ययत्वेनानेकार्थत्वादव-अधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपवद्वस्तु येन ज्ञानविशेषेणत्यवधिः, रूपवद्वस्तु येन ज्ञानेन अव मर्यादया एतावत्क्षेत्रं एतावन्ति द्रव्याण्येतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिरूपया धीयते परिच्छिद्यत इत्यवधिः, अवधिज्ञानावरणविलयविशेषसमुद्भवो भवगुणप्रत्ययः रूपिद्रव्यविषयो ज्ञानविशेषः । काययोगसहकारेण संज्ञिजीवैर्मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमितानि द्रव्याणि मनांसि, तेषां चिन्तनानुगुणा ये पर्यायाः परिणामस्तेषु ज्ञानं मनःपर्यवज्ञानमिति ज्ञानशब्देन सह वैयधिकरण्यमङ्गीकृत्य व्युत्पत्तिः, मनसा मन्यमानमनोद्रव्याणां वा पर्यवः परिच्छेदो मनःपर्यव इति ज्ञानेन सामानाधिकरण्यमङ्गीकृत्य, मनःपर्यवावरणविलयविलसितश्चारित्रवतो मानुषक्षेत्रवत्तिप्राणिमनःपरिचिन्तितार्थप्रकटनरूपो ज्ञानविशेषः। इन्द्रियादिसाहाय्यानपेक्षित्वाच्छेषछाद्मस्थिकज्ञाननिवृत्तेर्वा केवलमेकसहायमनितरसाधारणमप्रतिपाति निखिलज्ञेयग्राहिज्ञानविशेष: केवलमिति, पञ्चेति, न न्यूनानि नाप्यधिकानि, ज्ञानानीति, ज्ञायते वस्तु परिच्छिद्यत एभिरिति ज्ञानानि, आवरणद्वयक्षयक्षयोपशमाविर्भूता आत्मपर्यायविशेषास्सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहकाः सामान्यांशग्राहकाश्चेत्यर्थः । अनेन सूत्रेण प्रबलान्तरायनिकरनिराकरणनिबन्धनं मङ्गलमनुष्ठितं, ज्ञानस्याशेषक्लेशविनाशनहेतुत्वेन परममङ्गलरूपत्वात् । अनुयोगविषयी-भूतस्यात्रोल्लेखात् द्वितीयसूत्रे च