________________
आचारांगसूत्र
२३१
ह्येकान्तग्रहग्रसिता न स्वाभिमतं साधयितुं पारयन्ति, अस्तित्वस्य नास्तित्वस्य वा साधकस्यैकान्तिकमतेऽसम्भवात्, यदि ह्येकान्तेनैव लोकोऽस्ति तद्यस्तिना सह नियतसामानाधिकरण्याद्यदस्ति तल्लोकः स्यात्, तथा च तत्प्रतिपक्षोऽप्यलोकोऽस्तीत्यतो लोक एवालोकः स्यात्, व्याप्यसद्भावे व्यापकसद्भावस्यावश्यम्भावित्वात्ततश्चालोकाभावप्रसङ्गेन तत्प्रतिपक्षस्य लोकस्यापि सुतरामभावः स्यात् । लोकत्वस्यास्तित्वव्यापकत्वे च घटपटादेरपि लोकत्वं स्यात्, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् । एवं नास्ति लोक इति ब्रुवन् भवान् किमस्ति नास्ति वेति पर्यनुयुक्तो यद्यस्तीति पक्षमङ्गीकरोति तहि स च यदि लोकान्तर्गतस्तहि नास्ति लोक इति नैव वक्तुं शक्येत यदि तु बहिर्भूतस्तहि खरविषाणवदसद्भूतत्वात् कस्योत्तरं दातव्यं भवेदित्येवमेकान्तवादाः सर्वे स्वयमभ्यूह्य निराकार्याः, निराकृताश्च मदीयतत्त्वन्यायविभाकरसम्मतितत्त्वसोपानयोर्विशदतया । एवञ्च वस्तूनां स्वपरद्रव्यक्षेत्रकालभावतः सदसदात्मकत्वे भगवदुक्तेऽभ्युपगम्यमाने न कश्चिद्दोषसंसर्गः समुन्मिषति । इत्थमेव च धर्मः स्वाख्यातो भवति, न त्वेकान्तवादिनां धर्मः स्वाख्यातः, ते हि न समनोज्ञाः, जीवाजीवतत्त्वपरिज्ञानपूर्वकानुष्ठानवतामेव समनोज्ञत्वात्, न हि वनवासादिना तैस्संमतेन कश्चिद्धर्मः, अरण्यग्रामादीनां धर्मेऽनिमित्तत्वात्, किन्तु तत्त्वं परिज्ञाय व्रतविशेषाणामनुष्ठानादेव, तदेवं प्रावादुकसंसर्गं त्यक्त्वा विशुद्धसम्यक्त्वः सर्वसावद्याकरणाय कृतप्रतिज्ञो भिक्षुभिक्षायायपरकारणाय वा विहरेत्, तथाविधं ग्रामादेर्बहिर्वा यत्र कुत्रचिद्वसन्तं विहरन्तं वा यतिमुपगम्य कश्चिद्गृहपतिः साध्वाचारानभिज्ञ एषु संपरित्यक्तनिखिलारम्भेषु निक्षिप्तमक्षयमतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय भोः श्रमण अहं संसारार्णवं समुत्तितीर्घः, युष्मन्निमित्तमशनपानादिकं भूतोपमर्दनक्रयणादिना सगृहीतं स्वगृहादाहृत्य तुभ्यं ददामि, गृहादिकमपि युष्मदर्थं रचयामि संस्करोमि वेत्येवं यदि निमंत्रयेत्तदा सूत्रार्थविशारदः साधुर्मदर्थं प्राण्युपमर्दादिना विहितं न मे कल्पते, एवम्भूतानुष्ठानाद्विरतत्वादतो भवदीयमेवम्भूतं वचनं नाद्रिय इति निराकुर्यात्, तथा प्रच्छन्नदोषमाहारादिकं साध्वर्थमारचितं स्वमत्या परव्यावर्णनया तीर्थकृदुपदिष्टोपायेनान्येन वा केनचित्प्रकारेण विदित्वा नाहरेत् । एवं नरकादिगतियातनाभिज्ञं संयमविधिवेदिनमुचितानुचितावसरज्ञमान्तप्रान्ताहारतया निस्तेजस्कमतिक्रान्तसोष्मयौवनावस्थं सम्यक् त्वक्त्राणाभावाच्छीतस्पर्शपरिवेपमानगात्रं कश्चिद्गृहपतिः शीतस्पर्शासहिष्णु मत्वा भक्तिकरुणालिङ्गितचेता यदि ब्रुयात्, मुने किमिति सुप्रज्वालितमाशुशुक्षणिं न सेवस इति, तदा महामुनिरग्निकायज्वालनं स्वतो ज्वलितादिसेवनं न कल्पत इति प्रतिबोधयेदिति ॥ ४४ ॥