________________
२१२
अथ मुनिभावहेतुमाह
सूत्रार्थमुक्तावलिः
अनारम्भस्सन्धिज्ञस्सहिष्णुरपरिग्रहस्तपसा संयमं पालयेत् ॥ ३७ ॥
अनारम्भ इति, न विद्यते आरम्भो यस्य सोऽनारम्भः यतयो हि निखिलारम्भनिवृत्ताः, सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु साधवो देहसाधनार्थमनवद्यारम्भजीविनो निर्लेपा एव पङ्काधारपङ्कजवत् । एवम्भूतो यतिरार्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणं मिथ्यात्वक्षयानुदयलक्षणं वा सम्यक्त्वावाप्तिहेतुकर्मविवरलक्षणं वा शुभाध्यवसायसन्धानलक्षणं वा सन्धि स्वात्मनि व्यवस्थापितमभिसन्धाय क्षणमपि प्रमादमकुर्वन् पापारम्भाद्विरतः परिहृतमृषावादः परस्वमगृह्णन् यथा गृहीतप्रतिज्ञानिर्वहणायोद्यतः परीषहोपसर्गकृतशीतोष्णादिदुःखस्पर्शैरनाकुलः संसारासारभावनादिभिस्तथाऽसातवेदनीयविपाकजं दुःखं मयैव सोढव्यं पश्चादप्येतन्मयैव सहनीयं न हि संसारोदरे तादृशः कोऽपि विद्यते यस्यासात वेदनीयविपाकापादितरोगातङ्कादयो न भवेयुः, केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयाद्रोगादिसम्भवात् यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यम्, अन्यथा तन्मोक्षासम्भवादित्यादिविचारणया तथा शरीरमिदमौदारिकं सुचिरमप्यौषधाद्युपबृंहितं निःसारतरं सर्वथा सदा विशरारु मृन्मयघटादपि, सुपोषितमपि च वेदनोदये शिरउदरचक्षुःप्रभृत्यवयवाः स्वत एव विनश्यन्ति, अतोऽस्योपरि कोऽनुबन्धः का वा मूर्च्छा, नास्य कुशलानुष्ठानव्यतिरेकेण सार्थक्यमिति भावयन्ननाकुलमतिरसंयतलोकवित्तादिकं धनधान्यादिरूपं मूल्यतः प्रमाणतोऽणु वा महद्वा परिग्रहो महते भयायेति परिज्ञया विज्ञाय परिहर्त्ता यः स एव मुनिः, तस्मिन्नेव परमार्थतो ब्रह्मचर्यं नवविधब्रह्मचर्यगुप्तिसद्भावात् तस्माद्यावज्जीवं परिग्रहाभावाद्यत् क्षुत्पिपासादिकमागच्छति तन्मोक्षैकदृष्टिरुपेक्ष्य विविधतपोऽनुष्ठानविधिना संयमं परिपालयेदिति ।। ३७ ।।
હવે મુનિપણાના કારણને કહે છે.
સૂત્રાર્થ :- આરંભરહિત, શુભ અધ્યવસાયની આત્મામાં સ્થાપનારૂપ સંધિને જાણનાર, સહિષ્ણુ, અપરિગ્રહી એવા મુનિએ તપ વડે સંયમ પાળવું જોઈએ.
ભાવાર્થ :- જેને આરંભ નથી તે અનારંભ કહેવાય છે. સાધુઓ ખરેખર સર્વ આરંભથી વિરામ પામેલા છે. સાવઘ ક્રિયામાં પ્રવૃત્ત એવા ગૃહસ્થ કરતાં દેહની રક્ષા માટે અનવદ્ય એવા આરંભથી જીવતાં કાદવ જ જેનો આધાર છે. છતાં તેમાં જેમ કાદવ લેપાતું નથી. તેમ મુનિઓ નિર્લેપ થઈને જ રહે છે.