________________
आचारांगसूत्र
१६५ વિ. પરકાયશસ્ત્ર છે. દાતરડું, કુઠારા વિ. રૂપ વિભાગથી ઉભયકાય દ્રવ્યશસ્ત્ર છે. મન-વચનકાયાનું દુપ્રણિધાનરૂપ અસંયમ તે ભાવશસ્ત્ર છે. ૧પ
अथ सुखाभिलाषिणो जीवानां दुःखमुदीरयन्ति तन्मूले च दुःखगहने संसारसागरे परिभ्रमन्तीत्येवं विदिततद्दुष्टविपाको निखिलजीवविमर्दनादत्यन्तं निवर्तेतेत्याह
प्राप्य प्रव्रज्यामवबुध्य जीवान् समारम्भान्निवर्तेत ॥ १६ ॥
प्राप्येति, सर्वज्ञोपदिष्टमार्गानुसारेण प्रव्रज्यां परित्यक्ताखिलसावद्यारम्भकलापः सन् तेजस्कायादिप्राणिदुःखं तत्समारम्भं वा न करिष्यामीत्येवं संयमक्रियामवाप्येत्यर्थः, न केवलं क्रियामात्रेण मोक्षावाप्तिरपि तु विशिष्टमोक्षकारणभूतज्ञानादपीत्याशयेनोक्तमवबुध्य जीवानिति, यथावत् जीवगणान् ज्ञात्वेत्यर्थः, पूर्वोदितहेतुभिरम्भस्कायादिजीवान् विज्ञायेति भावः, अथवा यथाऽसद्वेद्यकर्मोदयात् स्वस्य प्राप्तं स्वानुभवेनातिकटु दुःखं सद्वेद्यकर्मोदयात् सुखकरं सुखं वेत्ति तथा एतेऽपि जीवाः सुखाभिलाषिणो दुःखोद्वेजिनश्चेति सुखदुःखाभ्यां जीवानवबुध्येत्यर्थः, यस्य हि स्वात्मन्येवंविधं ज्ञानं समस्ति स एव हि परत्रापि नानाविधोपक्रमजनितं स्वपरसमुत्थं योगाश्रयं सुखं दुःखं वाऽनुमिनोति यस्त्वेवं स्वात्मानमेव न जानाति स कथं परत्र जानीयात्, यश्च परत्र जानाति स स्वात्मानमपि यथावदवैति, परस्पराव्यभिचारादिति भावः । ज्ञपरिज्ञया विज्ञाते जीवगणे यद्विधेयं तदाह-समारम्भान्निवर्तेतेति, सर्वस्मादारम्भात् करणत्रयैरुपरमेत्, स चोपरमभाक् य आर्हतप्रवचने निरतो नान्यत्र, तथा च शाक्यादयो यथाप्रतिज्ञं निरवद्यानुष्ठायित्वाभावान्नोपरतव्यपदेशभाजः । प्रव्रज्याप्रतिपत्त्युत्तरकालमपि ज्ञानक्रियोक्तेनिःशङ्कितत्वसुदृढ श्रद्धावत्त्वमपि भवेदिति सूचितम्, यादृशेन ज्ञानेन श्रद्धया च प्रव्रज्यां प्रपन्नः तां तथैव संरक्षेत, न तु शाक्यादिदर्शनवैभवादिना जैनेन्द्र शासने शङ्कितो भवेत्, देशसर्वभेदेन हि द्विविधा शङ्का, किमस्त्याहतो मार्गो न वेति सर्वशङ्का, पृथिवीकायादयो जीवा विद्यन्ते न वेति देशशङ्का, उभयविधाऽपीयं शङ्काऽनर्थकारिणी, तस्मान्मौनीन्द्रवचनेन पृथिवीकायादिजीवान् विज्ञाय सश्रद्धो यावज्जीवं समारम्भनिवृत्तो भवेत्, यतः प्रव्रज्याप्रतिपत्तिकाले प्रायः प्रवृद्धपरिणामित्वेऽपि संयमश्रेणि प्राप्तो वर्द्धमानपरिणामो हीयमानपरिणामोऽवस्थितपरिणामो वा भवेत् तत्र वृद्धिकालो हानिकालो वा समयो जघन्यत उत्कर्षेणान्तमौहूर्तिकः, अवस्थितिकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात्, तस्मात्प्रव्रज्याप्राप्त्युत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्य