SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र १६१ बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति । बादरपर्याप्तका वायवस्संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयश्च प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः, तथापि बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असंख्येयगुणाः, बादराप्कायापर्याप्तकेभ्यो बादर- वायुकायापर्याप्तका असंख्येयगुणाः सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुकायपर्याप्तका विशेषाधिका इति । वनस्पतिकायपरिमाणञ्च यथा कश्चित्सर्वधान्यानि प्रस्थकुडवादिना मित्वाऽन्यत्र प्रक्षिपेत्तथा यदि कश्चित्साधारण-जीवराशि लोककुडवेन मित्वाऽन्यत्र निक्षिपेत्तत एवं मीयमाना अनन्तलोका भवन्ति । पर्याप्तबादरनिगोदाश्च संवर्तितचतुरस्रीकृतसकललोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसंख्येयगुणाश्च । अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाश्च प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः क्रमशो बहुतरास्तेभ्योऽनन्तगुणाः साधारणजीवा इति । तेजस उपभोगः-दहनप्रतापनोड्योतकरणौदनादिरन्धनस्वेदनाद्यनेकप्रयोजनेषु मनुष्याणां बादरतेजःकाय उपयुज्यते, एतन्निमित्तं गृहिणस्सततमारम्भप्रवृत्ता जीवान् व्यापादयन्ति । व्यजनभस्त्राध्माताभिधारणोत्सिञ्चनफूत्करणादिभिर्वायुकाय उपयुज्यते तदर्थञ्च मनुष्यास्तदारम्भप्रवृत्तास्तान् हिंसन्ति । पत्रफलाद्याहार व्यजनाद्युपकरणखट्वादिशयनयानशिबिकादिभिर्वनस्पतिकायस्योपभोगः, एतत्प्रयोजनाय सुखैषिणः प्रत्येकसाधारणवनस्पतिजीवान् बहून् विहिंसन्ति धूल्युदकाग्निवायुवनस्पतित्रसादयस्तेजस्कायस्य समासतो द्रव्यशस्त्रम्, स्वकायरूपं विभागशस्त्रमग्निकाय एवाग्निकायस्य, यथा तार्णाग्निः पार्णाग्नेः । परकायरूपन्तूदकादि, उभयरूपमपि तुषकारीषादिव्यतिमिश्रोऽग्निरपराग्नेः । भावशस्त्रं दुष्प्रणिहितमनोवाक्कायलक्षणासंयम इति । वायुकायस्य व्यजनसूर्यचामरादयः परकायशस्त्रम्, प्रतिपक्षवातः स्वकायशस्रम् । दुष्प्रणिहितमनोवाक्कायलक्षणं भावशस्त्रम् । वनस्पतेः कुद्दालवासीपरश्वादयः समासतो द्रव्यशस्त्रम्, लगुडादि स्वकायशस्त्रम्, पाषाणवल्यादि परकायशस्त्रं दात्रकुठारादिरूपमुभयशस्त्रञ्च विभागतो द्रव्यशस्त्रं विज्ञेयम्, दुष्प्रणिहितमनोवाक्कायरूपासंयमो भावशस्त्रमिति ॥१५ ॥ मा ४ हदीद (न्याय.) बी४ स्थणे ५९॥ सतावे छे. सूत्रार्थ :- तेय, वाय, वनस्पति डायने एवोऽ... (®१३५.) भावार्थ :- 24॥ ५९॥ (1611 ) २४५.यनी ४ प्र३५९u, , परिमार, ७५मो, શસ્ત્ર વિ. વડે જાણવા યોગ્ય છે. એ પ્રમાણે અર્થ છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy