________________
आचारांगसूत्र
१५९
શાક્ય આદિ મતવાળા અપકાયના ભોગમાં પ્રવૃત્ત થયેલા નિચે અપૂકાય જીવને દ્રવ્ય અને ભાવશસ્ત્ર વડે હણે છે. અને તેને આશ્રયીને રહેલા બીજા જીવોને પણ હણે છે. તેથી તેઓને પ્રાણાતિપાત આદિ નક્કી છે. આથી જ એઓ “જ્ઞપરિજ્ઞા' વડે અપકાયના સમારંભને જાણતા નથી, જેના વડે (જ્ઞપરિજ્ઞા) જણાયો છે. અને “પ્રત્યાખ્યાન પરિજ્ઞા વડે પરિહાર કરાયો છે તે જ 'परिशात 8' (साधु) छ. मे प्रभावोनी भावार्थ छ. ||१४||
अमुमेव न्यायमन्यत्राप्यतिदिशतितेजोवायुवनस्पतिकायान् विजानीयात् ॥ १५ ॥
तेज इति, एतेऽपि अप्काय इव प्ररूपणालक्षणपरिमाणोपभोगशस्त्रैविशिष्टतया विज्ञेया इत्यर्थः, तथा हि तेजसः प्ररूपणा-तेजस्काया: सूक्ष्मबादररूपेण द्विविधाः, एवं वायुवनस्पतिकाया अपि, सूक्ष्माः सर्वलोकव्यापिनः, अङ्गाराग्न्यचिळलामुर्मुरभेदतः पञ्चविधाः बादरतेजस्कायाः, एते स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणे तु लोकासंख्येयभागवर्तिनः, यत्र बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तका अपि, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा भवन्ति, एते च वर्णादिभिः सहस्राग्रशो भिद्यमानाः संख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात्त्रिधा, सप्त चैषां योनिलक्षा भवन्ति । सूक्ष्मवायुजीवाश्च सर्वलोकव्यापितया दत्तकपाटसकलवातायनद्वारगेहोन्तधूमवत्स्थिताः । बादरा एते पञ्चविधाः, उत्कलिकामण्डलिकागुञ्जाघनशुद्धवातभेदान्, सप्त च वायुकायानां योनिलक्षा भवन्ति । सूक्ष्मवनस्पतयश्च सर्वलोकापन्ना अचक्षुर्लाह्या एकाकारा एव, प्रत्येकसाधारणभेदतो बादरवनस्पतिकाया द्विविधाः. पत्रपुष्पफलमूलादीन् प्रति प्रति एको जीवो येषान्ते प्रत्येकजीवाः, वृक्षगुल्मगुच्छलतावल्लीपर्वगतृणवलयहरितौधिजलरुहकुहणभेदेन द्वादशविधाः । परस्परानुविद्धानन्तजीवसंघातरूपशरीरावस्थानाः साधारणा अनेकभेदाः, समासेन तु सर्वेऽप्येते अग्रमूलस्कन्धपर्वबीजबीजरुहसम्मूछेनजभेदात् षोढा भवन्ति । प्रत्येकतरुजीवाः पर्याप्तकाः संवत्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः बादरतेजःकायपर्याप्तकराशेरसंख्येयगुणाश्च । अपर्याप्तकास्तेऽसंख्येयलोकप्रदेशप्रमाणाः, एतेऽपि बादरतेजःकायजीवराशेरसंख्येयगुणाः । साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, परन्तु साधारणबादरपर्याप्तकेभ्यो