SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ આ પ્રમાણે ક્રમશઃ જ અન્વય કરવાનો છે. એનું કારણ એ છે કે પ્રવચન, સાંપ્રત વિગેરે દરેક શબ્દ ॥ अर्थ ४२ती मते 'वा' नथी सध्या ५९। 'च' सध्या छ. सन या५६ ५४॥ यया छ. भाटे मश: 318। ४२वानुं छे. லலல तदेवं शिष्यस्य विनयोपदेशो दत्तो गुरूणा चैवंविधेन भाव्यमित्युक्तम्, अधुना साध्वीरधिकृत्य विनयोपदेशः, स च साधूनामद्यदीक्षितानामपि ताभिः कार्य इति। अत्र कथानकम् कौशाम्ब्यां नगर्यां शेडुवकनाम्ना नि:स्वेन काकन्दीपुरतो वैराग्यादागतेन राजमार्गावतीर्णा गणनातिक्रान्तसाध्वी श्राविकालोकपरिकरा राजसामन्त श्रेष्ठिपौरजनपदैः पूज्यमानाऽनुगम्यमाना च तथाप्यनुत्सेकवती शमश्रीरिव मूर्तिमती वपुर्वैलक्षण्याऽपहसितामरसुन्दरीसौन्दर्या आर्यचन्दना ददृशे। ततः स सञ्जातकौतुकः कञ्चन वृद्धं पप्रच्छ अथ केयं भगवतीति? स प्राह - एषा चम्पाधिपदधिवाहनराजदुहिता वसुमती स्वगुणोपार्जितचन्दनाभिधाना तृणवदपहाय राज्यसुखं प्रव्रजिता वीरस्य भगवतः प्रथमान्तेवासिनी आचार्यसुस्थितवन्दनार्थमुच्चलितेति। ततो भक्तिकुतूहलाभ्यामाकृष्टचित्तः स साधूपाश्रयं जगाम। चन्दनापि गुरुं वन्दित्वा स्वोपाश्रयमगमत्। दृष्टोऽसौ गुरुणा ज्ञानावलोकेन, लक्षिता धर्मयोग्यता, सम्भाषितो मधुरवचनैः, अस्योचितमिदमिदानीमिति भोजितः परमान्नैः, चिन्तितमनेनाऽहो! करुणापरतैषाम्, उभयलोकहितं जीवितम्, निवेद्य स्वाभिप्रायं प्रपन्नः प्रव्रज्याम्, स्थिरीकरणार्थं सुसाधुसहायः प्रहित: प्रतिश्रयं गुरुणा, तस्मिन् प्रवेश्य बहिः स्थिता: साधवः, अभ्युत्थितः सपरिकरया चन्दनया, दापितमपरिभोगमासनम्, वन्दितः सविनयम्। अत्रान्तरे तस्या उपनीतमार्यिकाभिर्विष्टरम्, नेष्टमेतया विरचितकरमुकुलया चोक्तं-किं भगवतामागमनप्रयोजनमिति? ततोऽसावहो! धर्मप्रभावो यदेवंविधापीयं ममाप्येवं वर्तते! इति सञ्चिन्त्याह-युष्मदुदन्तान्वेषणनिमित्तं गुरुभिः प्रेषितोऽहमिति स्थिरीभूतधर्माभिनिवेशो निर्गतः प्रतिश्रयात् ॥ ११ ॥ तथा चाह अणुगम्मई भगवई, रायसुयज्जा सहस्सविंदेहिं । तह वि न करेई माणं, परियच्छइ तं तहा नूणं ।। १२ ।। दिणदिक्खियस्स दमगस्स, अभिमुहा अजचंदणा अज्जा । नेच्छइ आसणगहणं, सो विणओ सव्वअजाणं ।। १३ ।। अणुगम्मई० गाहा, दिणदिक्खियस्स० गाहा : अनुगम्यते भगवती राजसुता आर्या आर्यचन्दना वृन्दसहस्रः पूजितलोकानामिति गम्यते। वृन्दशब्दस्य परनिपातः प्राकृतत्वात्, तथापि न करोति मानं
SR No.023127
Book TitleUpdesh Mala
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages138
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy