________________
तत्र यश्चिन्तयेदेवंविधसत्कर्तव्यानि कुलीना एव कुर्वन्ति, नेतरे, तम्प्रति लघुकर्मताऽत्र कारणं न कुलमित्याह -
न कुलं एत्य पहाणं, हरिएसबलस्स किं कुलं आसि?।
आकंपिया तवेणं, सुरा वि जं पज्जुवासंति ॥ ४३ ॥ न कुलं० गाहा : न कुलमुग्रादिकमत्र धर्मविचारे प्रधानं श्रेष्ठं, यतो हरिकेशबलस्य बलनाम्नो मातङ्गस्य किं कुलमासीज्जुगुप्सितत्वात्, न किञ्चिदित्यर्थः, यस्य किं सम्पन्नमित्याह-आकम्पिता इति आवर्जिता हृतहृदयाः कृतास्तपसा विकृष्टेन सुरा अपि देवा अपि, आसतां मनुजाः, यं पर्युपासते, तस्य किं कुलमासीदिति सामान्यार्थः, विशेषार्थः तूदाहरणाद् ज्ञेयः ।।
तच्चेदं - पुरोहितभवे जातिमदेन निवर्तितनीचैर्गोत्रस्तद्विपाकाल्लब्धनिन्द्यजातिर्बलाभिधानो मातङ्गश्रमणको विशिष्टतपोऽनुष्ठाननिरतो वाराणस्यां तिन्दुकोद्याने गण्डीतिन्दुकयक्षायतने तस्थौ। स च यक्षस्तद्गुणाक्षिप्तचित्तो विमुक्ताशेषव्यापारस्तमुपास्ते स्म। अन्यदा तन्मित्रमन्योद्यानात्समागतोयक्षस्तं प्रत्याह- 'वयस्य! कथं न दृष्टोऽसि?' । सप्राह-अमुं भगवन्तं महर्षिं पर्युपासीनस्तिष्ठामि। इतर आह-ममापि कानने मुनयस्तिष्ठन्ति। ततो भक्तिकौतुकाभ्यां गतौ तद्वन्दनार्थम्। दृष्टाः कथञ्चिद्विकथाप्रवृत्ता मुनयः, ततस्तौ तेभ्यो विरक्तौ। गाढतरमनुरक्तावितरस्मिन्। धन्यस्त्वं योऽस्य चरणौ प्रतिदिनं पश्यसीति ग्लाघितस्तिन्दुकयक्षस्तेन।
अन्यदा राजदुहिता भद्राभिधाना गृहीतानिका गता तदायतनम्, प्रदक्षिणां कुर्वत्या दृष्टो मुनिरसंस्कृतगात्रो, जुगुप्सया निष्ठ्यूतमनया, जातो यक्षस्य कोपः, दर्शयाम्यस्या भगवत्परिभवफलमिति सञ्चिन्त्याधिष्ठितं तच्छरीरं, प्रलपन्ती नानाविधं परिजनेन नीता पितृसमीपम्। अपत्यस्नेहमोहितेन कारिता तेन चिकित्सा, न जातो विशेषः, विषण्णा वैद्याः, ततः प्रकटीभूय यक्षः प्राह-अनया पापया मम स्वामी मुनिरुपहसितोऽस्ति, यदि तस्यैव जाया जायते ततो मुञ्चामि, नान्यथेति। ततो जीवन्ती द्रक्ष्यामीति सञ्चिन्त्य प्रहिता सा सपरिजना तत्सकाशं राज्ञा। गत्वा च पादपतिता सा प्राह- 'महर्षे ! गृहाण करं करेण, स्वयंवराऽहं भवतः।' मुनिराह- 'भद्रे! निवृत्तविषयसङ्गा मुनयो भवन्ति, अलमनया कथयेति।' ततः केलिप्रियतया प्रविश्य यक्षेण मुनिशरीरं परिणीता कृतविडम्बना मुक्ता च, स्वप्नमिव दृष्ट्वा विच्छायवदना गता पितृसकाशम्। ततस्तदुद्देशेन रुद्रदेवनामा पुरोहितः प्राह-ऋषिभिस्त्यक्ता पत्नी ब्राह्मणेभ्यो दीयत इति वेदार्थः। राज्ञापीदमेव प्राप्तकालमिति सञ्चिन्त्य दत्ता तस्मै सा, कृता तेन यज्ञं यजता यज्ञपत्नी। मुनिरपि मासपारणके प्रविष्टो भिक्षार्थं यज्ञपाटके, अदत्तं द्विजेभ्यो न दीयते तुभ्यं शूद्राधमायेत्याधुपहसितश्चट्टैः। ततो यक्षेण तच्छरीरं प्रविश्य कथमहं यावज्जीवमब्रह्मनिवृत्तः अहिंसादिव्रतधरश्च न ब्राह्मणः ? कथं वा भवन्त: पशुवधादिपापासक्ता योषिदवाच्यदेशमर्दकाश्च ब्राह्मणाः? इत्यादिवाक्यैस्तिरस्कृतास्ते मुनिं प्रहन्तुमारब्धाः । यक्षेणाप्याहत्य निर्गच्छदुधिरोद्गाराः शिथिलबन्धनसन्धयः