________________
तच्चेदम्
श्रावस्त्यां जितशत्रुतनयस्य स्कन्दकस्य भगिनी पुरन्दरयशाः कुम्भकारकटकनगरनिवासिना दण्डकिराजेन परिणीता। अन्यदा कस्मिंश्चित्कार्ये प्रहितो दण्डकिना पालकनामा दूतो जितशत्रुसकाशम्। स च धर्मविचारे नास्तिकमतं प्रतिष्ठापयन्नर्हदागमाऽवदातबुद्धिना निर्जितः स्कन्दककुमारेण जातक्रोधो गतः स्वस्थानम्। स्कन्दकोऽपि जातवैराग्यो मुनिसुव्रतसमीपे पञ्चपुरुषशतपरिकरो निष्क्रान्तः । भगवतापि गृहीतसमयसारः कृतस्तेषां स एवाचार्य: । अन्यदा तेन पृष्टो भगवान् मुनिसुव्रतस्वामी' भगिन्यादिप्रतिबोधनार्थं यामि कुम्भकारकटकमिति । ' भगवानाह 'प्राणान्तिको भवतां तत्रोपसर्गः ', स प्राह- आराधका न वेति ? भगवतोक्तं-भवन्तं मुक्त्वा । ततो यद्येते मत्साहाय्येनाराधयन्ति किं मया न लब्धमित्यभिधाय गतः । तदागमनं चाकर्ण्य पालकेन साधुजनोचितेषूद्यानेषु निधापितानि नानाविधानि शस्त्राणि । प्राप्ते च भगवति निर्गतः सह नागरलोकेन वन्दनार्थं राजा । भगवतापि कृता देशना, आह्लादिता जन्तवः । ततः पालको रहसि राजानं व्यजिज्ञपदस्माभिर्भवद्भ्यो हितं भाषितव्यम् । अयं च पाखण्डिकः स्वाचारभग्नः सहस्रयोधिनो अमून् पुरुषान् सहायीकृत्य भवद्राज्यं जिघृक्षति । राजाह 'कथं जानीषे'? स प्राह कियदेतद्भविष्यद्भवदपायपरिहारावहितचित्तानां ? निरुपयन्तु भवन्तः स्वयमेव तन्निवासस्थानम् । ततः केनचिद् व्याजेनान्यत्र प्रहितेषु साधुषु दृष्टशस्त्रेण पालकापरापरवचनैश्च चलितचित्तेन राज्ञाऽभिहित: स एव ' त्वमेव कुरु यथोचितमेषाम् ' । ततस्तेन पुरुषपीलनयन्त्रं निधाय पीडयितुमारब्धाः साधवः पापेन । स्कन्दकाचार्योऽपि प्रत्येकं दापयत्यालोचनामुत्पादयति समाधानम् । तेऽपि भगवन्तः
मुक्तात्मकार्योऽयं निर्मिथ्यमस्मत्कर्मक्षयोद्यतः । विनयं (नियतं ) भाव्यपायत्वात् करुणां चायमर्हति ॥ १ ॥ इत्यालम्बनतो ध्यानं, सर्वेऽप्यापूर्य सत्तमं । पीडितास्तेन पापेन, गता मोक्षं विचक्षणा : ॥ २ ॥
क्षुल्लकं चैकं पश्चाद्भाविनमुद्दिश्यामुं पश्चात्पीडय मां प्रथममित्याचार्येणोक्तः स पापस्तं शीघ्रतरं पीडितवान्। ततः सञ्जातोऽतितीव्रः क्रोधाग्निराचार्यस्य, दग्धं क्षणाद् गुणेन्धनं, विस्मृत आत्मा, पालकमुद्दिश्य 'दुष्टात्मन् ! त्वद्वधाय भूयासमहमिति' बद्धनिदानः पीडितोऽनेन सञ्जातोऽग्निकुमारेषु । प्रयुक्तावधेरुल्लसितः कोपः। इतश्च तद्रजोहरणं रुधिरोपदिग्धं हस्तोऽयमिति भ्रान्त्या शकुनेर्नयतः पतितं तद्भगिन्याः प्राङ्गणे । तद् दृष्ट्वा सा राजानमुद्दिश्य प्राह ‘आः पाप! किमेतत् ?' ततो विज्ञाय वृत्तान्तं सञ्जातवैराग्या देवतया सपरिकरा नीता मुनिसुव्रतसमीपे, निष्क्रान्ता च । इतरेणाऽप्यागत्य अतिक्रोधाध्माततया भस्मीकृतः सपालकः स देश:, सञ्जातं तद्दण्डकारण्यमिति ॥ ४१ ॥
અવતરણિકા : તે આ પ્રમાણે આફતોમાં પણ દૃઢધર્મતા કહેવાઈ. તે દૃઢધર્મતા જેઓ વડે કરાઈ तद्द्वारेण = तेभना द्वारा = तेमना दृष्टान्त ४ए॥ाववा वडे (ते दृढधर्मताने ) ग्रंथङारश्री हे छे.
ગાથાર્થ : ઘાણીઓ વડે પીડા કરાયેલા ( પીલાયેલા) એવા પણ સ્કંદકાચાર્યના શિષ્યો ગુસ્સે ન જ થયા. (આ પ્રમાણે) જણાયેલા છે તત્ત્વોનો સાર જેઓ વડે એવા જે પંડિતો છે તેઓ સહન કરે छे. ।। ४१ ।।
-
εξ
-