________________
आओ संस्कृत सीखें
15
हिन्दी में
अनुवाद
करें :
1.
कुलालचक्र आरूढमिव मे चेतश्चिरं भ्राम्यति । 2. पुरन्ध्रीसेवायां भ्राम्यन्तो जीवा भवे भ्रमन्ति ।
3.
यो महिलासु न रज्यति तस्य ज्ञानं विवेकश्चाभ्यागच्छति । 4. किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । 5. उत्पद्यन्ते विपद्यन्ते खलु जन्तवः ।
6. निर्धनानां मनोरथा हृदयेष्वेव लीयन्ते ।
7. सर्व: प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । अद्य मे मनो वैराग्ये लीनमस्ति ।
8.
9. त्वमेवैकोऽसि मे बन्धु र्यन्मत्कार्याय' ताम्यसि । 10. वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य हि । 11. विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा ।
विद्याहीनो नरः प्राज्ञ-सभायां नैव शोभते ।। 12. आदौ चित्ते ततः काये सतां सम्पद्यते जरा । असतां तु पुनः काये नैव चित्ते कदाचन ।। 13. विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ।। 14. विषयेष्वति - दुःखेषु सुखमानी' मनागपि ।
नाहो विरज्यति जनोऽशुचिकीट इवाशुचौ । 15. न सा दीक्षा न सा भिक्षा न तद्दानं न तत्तपः । न तद् ध्यानं न तन्मौनं दया यत्र न विद्यते ।
टिप्पणी : 1) मम कार्यम् - मत्कार्यम् = तस्मै
2) सुखं मन्यते इति सुखमानिन् = सुख मानने वाला