________________
आओ संस्कृत सीखें
273
देवता भगवानर्हन् गुरवश्च सुसाधवः ।। मानुष्यकस्य यद्यस्य वयं नादद्महे फलम् । मुषिताः स्मः तदधुना चौरे वसति पत्तने ।।
उपदेशो न दातव्यो यादृशे तादृशे जने । पश्य वानरमूपेण सुगृही निगृहीकृता ।। दमनक आह- कथमेतत् ? सोऽब्रवीत् -
अस्ति कस्मिंश्चिद्वनोदेशे शमीवृक्षः, तस्य लम्बमानशाखायां कृतावासावरण्यचटकदम्पती वसतः स्म ।
अथ कदाचित्तयोः सुखसंस्थयो हेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः ।
अत्रान्तरे कश्चित्छाखामृगो वातासारसमाहतः प्रोद्धूषितशरीरो दन्तवीणां वादयन् वेपमानस्तच्छमीमूलमासाद्योपविष्टः । अथ तं तादृशमवलोक्य चटका प्राह, भो भद्र ! हस्तपादसमापेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ! कथं न कुरुषे गृहम् ? ।।
एतच्छृत्वा तां वानरः सकोपमाह - अधमे ! कस्मान्न त्वं मौनव्रता भवसि ? 'अहो, धाय॑मस्याः अद्य मामुपहसति । सूचीमुखी दुराचारा, रण्डा पण्डितवादिनी । नाऽऽशङ्कते प्रजल्पन्ती, तत्किमेनां न हन्म्यहम्' ।। एवं प्रलप्य तामाह-मुग्धे ! किं तव ममोपरि चिन्तया । उक्तं च - वाच्यं श्रद्धासमेतस्य, पृच्छतश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य, अरण्यरुदितोपमम् ।। तत्किं बहुना तावत् । कुलायस्थितया तयाऽभिहितः स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि - ‘उपदेशो न दातव्यः' इति ।