SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1214035 10. युष्मान्विना गतान्नोऽद्य लोकोप्युपहसिष्यति । हृदय ! स्फुट रे सद्यः पयःसिक्ताऽऽमकुम्भवत् ।। 11. मयैकाकिन्यसौ मुक्ता प्रबुद्धा मुग्धलोचना । मोक्ष्यते जीवितेनाऽपि स्पर्द्धयेव मया सह ।। 12. भक्तां तदेनां वञ्चित्वा नान्यतो गन्तुमुत्सहे । जीवितं मरणं वाऽपि मम स्तादनया सह ।। 13. अथवाऽनेक-दुःखानामरण्ये नरकोपमे । ___पात्रं नारकिक इव भवाम्येकोऽहमस्त्वसौ ।। 14. मया तु वस्त्र-लिखितामाज्ञां कृत्वा मृगाक्ष्यसौ । स्वयं गत्वा कुशलिनी वत्स्यति स्वजनौकसि ॥ 15. इति निश्चित्य तां रात्रिमतिक्रम्य च नैषधिः । प्रबोध-समये पत्न्याः प्राचलत्त्वरितक्रमम् ।। 16. पूर्णोऽहमथैरिति मा प्रसीद रिक्तोऽहमथैरिति मा विषीद । रिक्तं च पूर्णं भरितं च रिक्तं करिष्यतो नास्ति विधे विलम्बः ।। 17. त्वया विना वीर ! कथं व्रजामो ! गृहेऽधुना शून्यवनोपमाने । गोष्ठी-सुखं केन सहाचरामो ! भोक्ष्यामहे केन सहाथ बन्धो ! ।। 18. अतिप्रियं बान्धव ! दर्शनं ते सुधाञ्जनं भावि कदास्मदक्ष्णोः नीरागचित्तोऽपि कदाचिदस्मान्स्मरिष्यसि प्रौढगुणाभिराम ! ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy