________________
BARSASRMINS..
|| विजयरामचन्द्राचार्यभक्तिस्तोत्रम् ||
કર્તા : ગણી હિતવર્ધન વિજય
MDsRBsIRaasDAN.
उन्मार्गतिमिराच्छन्नप्रकृत्यम्भोजभास्करः । रामचन्द्रोगुरूर्जयतादनेकान्तद्युविष्करः............... लालसापन्नगीतार्थ्यं पापनाशनतत्परम् । साधुचक्रस्य चक्राङ्गं रामचन्द्रं नुवेऽन्वहम् ......... ॥२॥ नमामि नतनाकिनं वैराग्यवल्लभावरम् । रामचन्द्रं यशस्कदं सूरीशं शास्त्रजीवनम् ......... ॥३॥ रामचन्द्रं नमस्कुर्वे मिथ्यात्वान्तककौशिकम् । धर्मद्युतिं द्युतिमतीशास्त्रदृष्टिविधायिनम् ............. ॥४॥ वन्दे व्याख्यानसम्राजं समताशर्मसिन्धुरम् । रामचन्द्रं गणेशानं भक्तिभाजक्षिशङ्करम् ............ ॥५॥ भवाब्धितरणे पोतं अज्ञानाऽऽम्भस्समीरणम् । संयमावनिनेतारं रामचन्द्रं गुरुं स्तुवे.............. ॥६॥ भारतीहृदयाभरणं स्नातकालिशिरोमणिम् । कुवादिमदसंहारं रामचन्द्रं यजेऽनिशम्.. ........... ॥७॥ दयाद्विरेफदयित-मार्जवाणः सरोवरम् । वृषाणं वर्णिवृन्दस्य रामचन्द्रं भजाम्यहम् ......... ॥८॥