________________
७६
ध्वन्यालोकः
|३-३२,३३
वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणेतत्कर्म मुख्यं महाकवः ॥ ३२ ।।
वाच्यानामिनिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन ययोजनमेतन्महाकवेमुख्यं कर्म । अयमेव हि महाकवेमुग्यो व्यापारी यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्वयक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् ।
एतच्च रमादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह
ग्मायनुगुणत्वन व्यवहारोऽयंशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥३३॥
व्यवहारो हि वृत्तिरित्युच्यते । नत्र ग्मानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कशिक्याद्या वृत्तयः । वाचकाश्रयाश्चोपनागरिकाद्याः । वृत्तयो हि ग्मादितात्पर्यण मंनिवेशिताः कामपि नाट्यस्य काव्यस्य च च्छायामानहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः: इतिवृत्तादि तु शरीरभृतमेव । ___अत्र केचिदाहु:-" गुणगुणिन्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रमादिभिः पृथग्भूतम् ।" इति । अत्रोच्यते-यदि रसादिमयमेव वाच्यं यथा गौरत्वमयं शरीरम; एवं मति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते मवम्य तथा वाच्यत्वेन सहैव रमादयोऽपि सहृदयस्यांसहृदयस्य च प्रतिभामेरन् । न चैवमः तथा चैतत्प्रतिपादितमेव प्रथमोहयोते।
स्यान्मतम्; रत्नानामिव जात्यत्वं प्रतिपत्तविशेषतः संवेद्यं वाच्यानां