________________
२-२५,२६]
ध्वन्यालोकः [सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् ।
अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ।। च्छाया |
कविनिबद्धवक्तृप्रौढोक्तिमात्रनिप्पन्नशरीरो यथोदाहृतमेव - "शिखरिणि ...." इत्यादि । यथा वा
साअरविइण्णजोवणहत्यालंबं समुण्णमंतेहिं । अब्भुठ्ठाणं पिव मम्महम्स दिणं तुह थगेहिम् ।। [ सादरवितीर्णयौवनहम्तालम्यं समुन्नमद्भ्याम ।
अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ।। इति च्छाया |
म्वतःसम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं मणितिवशेनैवाभि निप्पन्नशरीरः । यथोदाहृतम्- ' एवं वादिनि....' इत्यादि ।
यथा वा--.
सिपिच्छकण्णऊरा जाआ वाहम्स गन्विणी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ॥ [ शिखिपिच्छकर्णपूरा जाया व्याधम्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम ।। इति च्छाया अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।। अनुस्वानोपमव्यङ्गन्यः स प्रकारोऽपरो ध्वनेः ॥२५॥
वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात्प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुम्वानरूपव्यङ्गयोऽन्यो ध्वनिः । तस्य प्रविरलविषयत्वमाशङ्कचेदमुच्यते
रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः। स सर्वो गम्यमानत्वं बिभ्रद्भूना प्रदर्शितः ॥२६॥
अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः मोऽन्यत्र प्रतीयमानतया बाहुल्यन प्रदर्शितम्तत्रभवद्भिभट्टोद्भटादिभिः । तथा च ममन्दहादिषुपमाझपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारान्तरम्या