SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः प्रथमोहयोतः स्वेच्छाकेसरिणः स्वच्छम्वच्छायायासितेन्दवः । त्रायन्तां के मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥ काव्यस्यात्मा ध्वनिरिति दुधैर्यः समानातीस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःपीतये तत्स्वरूपम् ॥ १॥ बुधैः काव्यतत्त्वविद्भिः काव्यस्यात्मा ध्वनिरिति मंज्ञितः. परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्ताद् म्नातः प्रकटितः, तम्य सहृदयननमनःप्रकाशमानस्याप्यभावमन्ये जगदुः । तदभाववादिनां चामी विकल्पाः सम्भवन्ति । तत्र केचिदाचक्षीरन् – ' शब्दार्थशरीरं तावत्काव्यम । तत्र च शब्दगताश्ररुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्वोपमादयः । वर्णसङ्घका धर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयो वृत्तयोऽपि याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् । सेतयश्च वैदर्भीप्रभृतयः । तद्व्यतिरिक्तः कोऽयं ध्वनिर्नामेति । अन्ये ब्रूयुः । ' नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकणः काव्यप्रकारस्य काव्यत्वहानेः । सहृदयहृदयादिशब्दार्थमयत्वमेव काव्यलक्षणम् । न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति । न च तत्समयान्तःपातिनः सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्धचा ध्वनौ काव्यत्वव्यपदेशः प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।' पुनरपरे तस्याभावमन्यथा कथयेयुः । 'न सम्भवत्येव वनिर्नामापूर्वः
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy