________________
२
संसारार्णवे यदि विश्ववैचित्र्यस्य किमपि कारणं वर्तते तदेव कर्मेति । येन केन प्रकारेण तस्यास्तित्वं प्रायः सर्वैर्दर्शनकारैः स्वीकृतमेव । तादृश इह भववारिधौ सुखदुःखसाक्षात्कार कारकस्य पुण्यपापश्रेण्यनुभावकस्य, निःस्वाढ्य विकृत निरोगिम निषियथाजातादिदशोपलम्भकस्य तस्य कर्मणो विद्यमानत्वं व्याहन्तुं न केऽपीशाः । केनचित् वासनारूपेण केनचित् शक्तिरूपेण कैश्चित् पञ्चान्यतमै कैककारणवादिभिश्च तेन तेन रूपेण तस्यास्तित्वं स्वीकृतमेव ।
I
प्रथमतोऽयं लघुग्रन्थो दार्शनिक विषय विदनुयोग सूरिभिर्ग्रन्थविधातृभिर्न्यायविशारदन्यायाचार्य महोपाध्याय श्रीमद्यशोविजय मुनिपुजवानां कर्मप्रकृतेः प्रस्तावनामयो व्यरचि । किन्तु तस्याः कर्मप्रकृतेः प्रकाशयित्री भावनगरस्थश्रीजैनधर्मप्रसारकसभा अस्याः प्रस्तावनायाः प्रमाणबाहुल्यात् तां नाग्रहीत् । अतः सैव प्रस्तावना तैर्विचक्षणविरचयितृवरैः किश्चिद्विवरणयुक्तेन कर्मसिद्धिनामकपुस्तकरूपेणाधुनार्थिजनेभ्यः प्रसादीक्रियते । यद्यप्यस्य कर्मसिद्धिना - मकग्रन्थस्याभिधानमेव तस्य विषयं व्याचष्टे, तथापि तस्य यत्किञ्चिद्विवरणकरणं नायुक्तं प्रतिभाति । अस्मिन् ग्रन्थे विबुधशिरोमणि - प्रणेतृभिः प्रथमतः विश्वविचित्रताप्रदर्शनपूर्वक कर्मणामस्तित्वरूपेण सिद्धि:, ततः कालवादिनः पूर्वपक्षः, स्वभाववादिनः कालवादिपक्षनिषूदनप्रयुक्तपूर्वपक्षः, स्वभाववादिपरासनसहितो मध्यविवर्तीश्वरोद्यमवादिखण्डनाविरहितश्च नियतिवादिनः पूर्वपक्षः, पञ्चान्यतमैकैककारणवादिनां सर्वेषां निर्वापणप्रयुक्तः तेषामेव
१ मूर्खः ।