________________
कर्मसिद्धिः।
४७ नापेक्षते, किन्तु नोत्पाद्यते स्वर्गादिकं दानादिक्रियां विनातोऽपेक्षत इति चेत् ? न, समर्थस्य प्रसह्य घटनात् , अन्यथा तस्या असामर्थ्यप्राप्तेः । ननु समर्थमपि बीजं भूमिजलादिसामग्री प्राप्यैवाङ्करं जनयति नान्यथेति चेत् ? ननु तर्हि दानादिक्रिया शक्तरुपक्रियेत न वा १, नोपक्रियेतेति चेत् । तर्हि दानाद्यभावत इव दानादितोऽपि न जनयति, उप काराकरणात् । यधुपक्रियेत तदा स उपकारः शक्तभिन्नोज भिन्नो वा ?, भिन्नश्चेत् ? स कथं दानादिक्रियाजन्य एव, न हननादिक्रियाजन्यः, उभयोरपि संसर्गाभावत्वाविशेषात् । अभिन्नश्चेत् शक्तिरेव कृता स्यात् ?, तथा च लाभमिच्छतो मूलतो हानिः समायाता। यद्वाऽस्तु यथाकथञ्चित्स्वर्गादिप्रयोजिका दानादिक्रिया, तथापि दानादिक्रियाकाल एव खर्गादिकं कथं न जनयति ?, ननु क्रियाजन्यावरणध्वंससहकृता सा कालान्तर एव जनयतीति चेत् ? न, तदपेक्षयाऽदृष्टस्यैव खविपाककाले फलजनकत्वौचित्यात् । तस्मानात्मशक्तिरूपमदृष्टमिति । तदेवं विश्ववैचित्र्यनिर्वाहकमनेकजातीयं सत्वरूपं मृत्तं शक्तिवासनादिपक्षनिर्वाहक्षम पौद्गलिकमदृष्टं सिद्धम् ।
तदुक्तं श्रीमद्भिः हरिभद्रसूरिपादैः"तस्मात्तदात्मनो भिन्नं, सचित्रं चात्मयोगि च । अदृष्टमवगन्तव्यं, तस्य शत्त्यादिसाधकम्॥१॥” इति। . अथ कर्मणो दर्शनपरिभाषोच्यते-तत्रादृष्टमिति वैशेषिकाः, संस्कार इति सौगताः, पुण्यपापे इति वेदवादिनः, शुभाशुभे इति गणकाः, धर्माधर्माविति साङ्ख्याः शैवाश्च । एवमेते दर्शनपरिभाषाजनिताः व्यञ्जनपर्यायाः ज्ञातव्याः।