________________
४४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितारिक्तवासकाकल्पनेन पुष्पादिगन्धवैकल्ये तिलादौ वासनाप्रसङ्गः स्यात्, अतिरिक्तवासककल्पने तु तदेवादृष्टम् , परमार्थसदतिरिक्तकोस्वीकारे तु वासना न युक्ता । न चासख्यात्युपनीतादृष्टभेदाग्रहात् ज्ञानवासनेति वाच्यम्, पुष्पादिगन्धभेदाग्रहेऽपि तैलादिगन्धेषु तद्वासनाप्राप्तेः, ज्ञानवासना तूक्तरूपा तैलादिगन्धवासना न तथेत्यपि न संगतम् , अदृष्टभेदग्रहात् ज्ञाने वासनानिवृत्तत्वे विदानीमेव निर्वाणप्राप्तिप्रसङ्गः, औत्तरकालिकभेदाग्रहप्रयोजकदोषसत्त्वेन नेदानीं वासनानिवृत्तिरिति चेत् ? तर्हि दोषाभावविशिष्टभेदग्रहाभावो वासनेति पर्यवसितं तथा चात्माश्रयः, वासनायाः एव दोषत्वात् । ज्ञानमात्रं वासनेत्यपि न सुन्दरम्, वासितत्वाभावेन सदैव मुक्तिः स्यात् । अथ विशिष्टं ज्ञानं वासना तदाऽविशेषितज्ञानस्य वैशिष्टयं न स्यात् , विशेषकल्पने तु तदेवादृष्टम् । नन्वेकसन्तानगामित्वेन क्षणिकतत्तत्ज्ञानप्रवाहरूपा वासनाऽतो नानुपपत्तिः, नापि शिष्यज्ञानेन गुरोर्वासनापत्तिश्चेति चेत् ? न, क्षणपरम्परातिरिक्तसन्तानस्वीकारेऽतिरिक्तद्रव्याभ्युपगमप्रसङ्गात्तदेवास्माकं कर्मेति । किञ्चातिरिक्तवासकाभ्युपगमेऽपि क्षणिकदर्शने वास्यकाले वासकस्याभावेन कुतो वासनासंभवः ?, समेत्य स्थितयोः वास्यवासकवः वासनाभावः संगच्छते, पुष्पादितैलादीनां तथादर्शनात् , नासमेत्य स्थितयोः। अपि च चासका वासना भिन्ना अभिन्ना वा ?, भिन्ना चेत् ? वासकस्य कः संसर्गः घटादिवन कोऽपीत्यर्थः। घटादयोऽपि च कथं न वासयन्ति ज्ञानादिकं, संसर्गाभावत्वाविशेषात् । एकक्षणवर्तित्वेन च वासनोत्पत्तेरनभ्युपगमे वासनाशून्यमन्यं कथं