________________
कर्मसिद्धिः।
__३९ मानदोषा अपि । कुत्राप्यत्यन्तासत्त्वधर्मस्यासत्त्वेन दृष्टान्तेऽपि अन्यत्र स्थितसद्रूपजीवनप्रत्यासत्तिः प्रतिभासते क्षारभूमौ, न तु सर्वथाऽविद्यमानो धर्मः। श्रुतेरपि द्वैतव्याप्यत्वेनाद्वैतं प्रति प्रामाण्यासंभवेन वाच्यवाचकभावस्य द्वैतरूपेण प्रतिभासादिति दिक् । तच्चादृष्टं पौगलिकम् । ____ अत्र वेदान्तिनः चर्चयन्ति-नन्वविद्यावरणमेव कर्म न पौगलिकं, मूर्तेन कर्मणा रूपातीतविज्ञानस्यावारयितुमशक्यत्वात् , अन्यथा शरीरादेरप्यावारकत्वप्रसङ्गः स्यादिति चेत् ? न, मूर्तेनापि मदिरादिना रूपातीतविज्ञानस्यावारकत्वदर्शनात् । अमूर्ताया अविद्याया आवारकत्वे तु गगनादेरप्यावारकत्वमविद्यावत् स्यात् , अमूर्तत्वाविशेषात् । ज्ञानाविरुद्धत्वेन गगनस्य नावारकत्वमिति चेत् ? तर्हि ज्ञानाविरोधित्वात् शरीरस्यापि मा भूदावारकत्वं विरुद्धस्यावारकत्वप्रसिद्धेः, न च मिथ्याज्ञानोदये प्रवाहेण प्रवर्तमानस्य ज्ञानादेः निरोधादविद्याया एव ज्ञानविरोधित्वं न गगनादेरिति वक्तव्यम् , पौद्गलिककर्मोदये प्रवाहेण प्रवर्तमानस्य ज्ञानादेः शरीरेण सह विरोधाभावात् , तथा चानुमानप्रयोगः-आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसम्बन्धनिबन्धनः तत्स्वरूपान्यथाभावात् मद्यपोन्मादवदिति । ननु कर्मणः पौगलिकत्वे किं मानम् १, अनुमानमिति ब्रूमः । तथाहि-अदृष्टं पौद्गलिकमात्मनोऽनुग्रहोपघातनिमित्तत्वात् शरीरवत् । नन्वात्मनोऽनुग्रहोपघातनिमित्तत्वमस्तु पौगलिकत्वं मास्तु भोगनिर्वाहकात्मधर्मस्योदयनाचार्यादिभिरुक्तत्वादिति चेत् १ न, कार्यैकार्थप्रत्यासत्या सुखादिहेतुत्वेऽसमवायिकारणत्वप्रसङ्गात् । न चात्मगुणभिन्नत्वे सतीति विशेषणं वा