________________
२८ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकिञ्च कुर्वद्रूपसत्त्वे एकत्र घटोत्पत्तिः, नान्यत्रेत्यत्र देशनियामकहेतुत्वाश्रयणे स्वभाववादः परित्यक्तः स्यात्, कार्यमनुमायैव प्रेक्षावतां प्रवृत्तिश्च, अन्यथा कारणमन्तरेणापि कार्यसंभावनयैव निष्पकम्पप्रवृत्तिप्रसक्तेः । स्वभावहेतुस्वीकारे निर्हेतुकाः भावाः प्रभवन्तीत्यपि न युक्तम् , वदतो व्याघाताद , तदुक्तं-"न हेतुरस्तीति वदन् सहेतुकं, ननु प्रतिज्ञां स्वयमेव बाधते" इति । किञ्च स्वभावो भावरूपोऽभावरूपो वा ?, भावश्वेत् ? नानास्वभावः एकस्वभावो वा?, एकस्वभावोऽपि नित्योऽनित्योवा?, न तावनित्यः, नित्यस्यैकरूपत्वेनार्थक्रियाकारित्वस्य क्रमयोगपद्याभ्यामसंभवात् । नाप्यनित्यः, एकत्वेन विरोधात्, प्रतिसमयं भिन्नभिन्नरूपेण भवनादनित्यस्येति । नानास्वभावोऽपि वस्तुविशेषः अकारणरूपो वा ? वस्तुधर्मो वा? वस्तुविशेषोऽपि मूर्तोऽमूर्तो वा ? मूर्तश्चेत् ? कर्मणः सकाशादविशिष्टः, यतोऽदृष्टं मूत विचित्रस्वभावमभ्युपगम्यते, स्वभावोऽपि भवतैवंविधः स्वीकृतः ततो न कोऽपि विशेष इति । अमूर्तश्चेत् ? नासौ देहादीनामारम्भकः, अनुपकरणत्वात् , दण्डादिसामग्रीविकलकुम्भकारवत् । एवं सुखदुःखादिहेतुरपि न स्वभावोऽमूर्तखात्, जीवानामनुग्रहोपघातावपि न कर्तुं समर्थो गगनमिव । तदुक्तं-'जमणुग्गहोवघाया जीवाणं पुग्गलेहिंतो' इति वचनात् । ननु जीवेन व्यभिचारः तस्यामूर्तत्वेऽपि सुखदुःखयोः हेतुत्वादिति चेत् ? न, एकान्तेनामूर्तत्वाभावेन व्यभिचाराभावात् । नन्वेकान्तेनामूत्वाभावे किं बीजम् ? क्षीरनीरवदनादिकर्मसन्तानपरिणामापनत्वमेव बीजं तस्य च बीजाङ्करभावेनेव परस्परं हेतु