________________
कर्म्मसिद्धिः ।
न, स्वाधिकरणक्षणावच्छेदेनैव फलजनकत्वेन व्यवहितहेतोः फलपर्यन्तव्यापारव्याप्यत्वावधारणादत एव - अन्येषां मतेऽपिं "स्वर्गकामो यजेत" इत्यत्रादृष्टद्वारा हेतुत्वकल्पनं संगच्छते, तथा चोक्तमुदयनाचार्यै:
●
'चिरध्वस्तं फलायालं, न कर्मातिशयं विना ।' इति । ननूपादान कारणवैचित्र्यात् शरीरवैचित्र्यं शरीरवैचित्र्याच्च भोगवैचित्र्यं शरीरसंयोगश्चात्मनीति किमदृष्टकल्पनयेति चेत ? न, शरीरसंयोगस्यात्मनीवाकाशादावपि सच्चेन तत्रापि भोगापत्तेः, उपष्टम्भकसंयोगेन तस्य भोगनियामकत्वे तूपष्टम्भकसंयोगप्रयोजकतयैवादृष्टसिद्धिः ।
तदुक्तं श्रीमद्भिः हरिभद्रसूरिपादैः शास्त्रवार्तासमुच्चये“आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्र - मदृष्टं कर्मसंज्ञितम् ॥१॥” इति ।
―――
अपि चैकजातीयदुग्धपानादौ कथं पुरुषभेदेन सुखदुःखादिभेदः, न च क्वचिदुग्धादेः कर्कट्यादिवत् पित्ताद्युद्बोधकत्वेन तद्भेदसिद्धिरिति वक्तव्यम्, सर्वत्र तदापत्तेः । ननु यथा भेषजं कस्यचिद्व्याधिमपनयति, कस्यचिन्न, कस्यचिद्विपरीतमपि जनयति, तद्वदत्रापीति चेत् ? न, दुग्धपानादेः तृप्तिमत्वेन साक्षात् सुखादितौल्यात्, उत्तरकालं तु धातुवैषम्यात् न तथा एवमेव कर्कव्यादिष्वपि साक्षात् तृप्तिमत्वेन सुखादितौल्यं स्यादेव ततः पित्ताद्युद्बोधकधातुवैषम्याभाव विशिष्टदुग्धपानत्वादिना सुखादिहेतुत्वकल्पनापेक्षयाऽदृष्टप्रयोज्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वेन लाघवमिति । नन्वदृष्टम