________________
५०
कातन्त्रव्याकरणम्
इत्यर्थः। एवम् इन्धनमिन्धः। भ्राष्ट्रस्येन्धः। अग्नेरिन्धः। दिनैकदेशे दिनशब्दः, मध्यं च तद् दिनं चेति। श्येनस्येव तिलस्येव पातो यस्यां क्रीडायाम्। श्येनतिलयोः पाते स्वार्थिकाणन्ते कर्तरि कृत्याः। या भविष्यति धेनुः सा धेनुम्भव्योच्यते। भक्षं कारयति भक्षङ्कारः, संस्कृतभक्षणयोग्य: पशुरुच्यते।।८७८।
[वि० प०]
सत्या० । उपोच्चारीत्यादि । न केवलं सप्तम्युक्तानामेवोपादानम् , किन्तर्हि उपोच्चारिणामपि कारशब्दस्य समीपोच्चारिणामपि। अतोऽसप्तम्युक्तानामपीत्याह - कारे घअन्तेऽपीति । केवलमणन्त इत्यर्थः । अन्यत्रापीति । प्रीणनं प्रीणः, इन्धनमिन्धः इति इनन्तादल । लोकस्य प्रीण:, भ्राष्ट्रस्येन्ध इत्यादि विग्रहः । मध्यं च तद् दिनं चेति मध्यन्दिनम् । दिनैकदेशे दिनशब्द इति कर्मधारयः । श्येनस्येव तिलस्येव पातो यस्यां क्रीडायामिति विगृह्य एवमादेराकृतिगणत्वात् स्वार्थिकाण्प्रत्ययान्ते पातशब्दे श्येनतिलयोर्मकारागमः, नदादेराकृतिगणत्वाद् अणन्तादपि स्त्रियामीप्रत्ययो न भवति । ननु वर्णागमो वर्णविपर्ययश्चेत्यादिन्यायेन यथैते सिद्धास्तथा सत्यङ्कारादयो भविष्यन्ति, किमनेनेति न देश्यम् उपलक्षणस्य सुखार्थत्वादिति ।।८७८।
[क० च०]
सत्या० । एषामुपपदानामिति सम्बन्धात् कारशब्दोऽणन्त एवोपस्थितः, कथं घजन्त: स्यादित्याह - उपोच्चारीति । पृणप्रीणयोर्लोकस्येति परसूत्रमित्याह - अन्यत्रेति। तथा इन्धेऽग्निभ्राष्ट्रयोः। करणे भद्रोष्णयोः। 'धेनुम्भव्या, मध्यन्दिनम्, अनभ्यासमित्य:' पाताण्णे श्येनतिलयोः ।।८७८।
[समीक्षा]
_ 'सत्यङ्कारः, अगदङ्कारः, अस्तुङ्कारः' शब्दरूपों के सिद्ध्यर्थ सत्यादि उपपदों के बाद अपेक्षित मकार का विधान आगम के रूप में दोनों व्याकरणों में किया गया है। पाणिनि का मुमागमविधायक सूत्र है – “कारे सत्यागदस्य” (अ० ६।३।७०)। 'अस्तु' शब्द का पाठ वार्त्तिक में किया गया है – “अस्तुसत्यागदस्य कार इति वक्तव्यम्” । अत: प्राय: उभयत्र समानता ही है ।
[विशेष वचन] १. सत्यङ्कारः समयकरणम् , अगदकारो निर्विषीकरणम् , अस्तुङ्कारः प्रतिज्ञाकरणम्
(दु० टी०)। २. रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते (दु० सी) । ३. संस्कृतभक्षणयोग्यः पशुरुच्यते (दु० टी०) ।