________________
कातन्त्रव्याकरणम्
[दु० वृ०]
एते क्तान्ता निपात्यन्ते न चेद् उपसर्गात् परा भवन्ति। 'दल जि फला विशरणे' (१।१६५), निष्ठातकारस्य लत्वम्-फुल्लः। क्तवतारपि लत्वमित्येके फुल्लवान्। क्षीवृकृशिभ्याम् उत्पूर्वाच्च लाघे: परस्य निष्ठातकारस्य लोप इडभावश्च- क्षीबः, कृशः, उल्लाघः। अनुपसर्गादिति किम्? प्रफुल्त:, प्रक्षीबित:, प्रकृशित:, प्रोल्लाघिन:। कथं संप्रफुल्न:, उत्फुल्ल:? 'फुल्ल विकसने' (१।१७८) इत्यचा सिद्धम्। परिकृश इति केन सिद्धम्? वचनं तु रूपान्तरं स्यादिति।।१४००।
[वि०प०]
अनुपसर्गात्। चरफलोरुदस्येति फलेरस्योत्वन्। केनेति। नाम्युपधलक्षणेन कप्रत्ययेनेत्यर्थः। यद्येवं तेनैव न्यायेन फुल्लादयोऽपि सिद्धा इत्याह– वचनं त्विति। निष्ठायां फलत: क्षीबित: इत्यादि प्रयोगो मा भूदित्यर्थः।।१४००।
[क० त०]
अनु०। निष्ठातकारस्येति व्यवस्थितवास्मरणाद् बोध्यम्। व्यञ्जनतकारस्यैव लोप इति बोध्यम्। अत: क्षीबादीनामकारान्तता 'टीकायां निपातेन विज्ञायते इति। फुल्लवानित्यादेरपि फुल्लादिभागम्य सूत्रेण निपातनं विज्ञाप्यते इत्यर्थः। मन्यन्ते इति केचिदित्यर्थः। स्वमतमाह- न हीत्यादि।। १४००।
(समीक्षा
'फुल्ल-क्षीब-कृश-उल्लाघ' शब्दों की सिद्धि दोनों ही व्याकरणों में निपातनविधि से की गयी है। पाणिनि का सूत्र है- "अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः'' (अ०८।२।५५)। अत: उभयत्र समानता ही है।
[विशेष वचन १. वचनं तु रूपान्तरं स्यादिति (दु०वृ०)। २. क्तवन्तोरपि लत्वमित्येके-फुल्लवान (दु०वृ०)। ३. अतः क्षीबादीनामकारान्तता टीकायां निपातेन विज्ञायते (वि०प०)। [रूपसिद्धि
१-५. फुल्लः । बि फला+क्त+सि। फुल्लवान्। जि फला+क्तवन्तु+सि। क्षीबः । क्षीबृ+क्त+सि। कृशः। कृश्+क्त+सि। उल्लाघः। उद्+ लाघ्+क्त+सि। ‘फला' धातु से 'क्त' प्रत्यय, उपधा अकार को उकार, निपातन से निष्ठातकार को लकार। 'क्षीव्-कृश्-उद्+लाघ' धातुओं से 'क्त' प्रत्यय, निपातन से निष्ठातकार का लोप, अकारान्तता तथा विभक्तिकार्य।।१४००।
१४०१. अवर्णादूटो वृद्धिः [४।६।११६] [सूत्रार्थ धातु अथवा अधातु से सम्बद्ध अवर्ण से परवर्ती ऊट को वृद्धि होती है।।१४०१ । [दु०वृ०]
धातोरधातोर्वा अवर्णात् परस्योटो वृद्धिर्भवति। शव्– शौः, शावौ, शावः। धावु- धौत:, धौतवान्। अवनम् ऊतिः, पटस्योतिः पटौतिः। जनानवतीति- जनौः, जनावौ, जनाव:। ऊट इति किम्? अद्योढा, कदोढा। औरिति सिद्धे वृद्धिग्रहणं मङ्गलार्थम्।।१४०१।