________________
६४६
कातन्त्रव्याकरणम् [क० त०]
आतो०। अन्तस्थासंयुक्तादिति किमर्थमिति अन्तस्थाया इत्यास्तामित्यर्थः। टीकायां स च धात्वर्थ इति धात्वर्थ: स्यात्।।१३८८।
[समीक्षा]
'ग्लान:, ग्लानवान्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- “संयोगादेरातो धातोर्यण्वतः" (अ० ८।२।४३)। इस प्रकार उभयत्र समानता ही है।
[रूपसिद्धि
१-४. ग्लानः, ग्लानवान्। ग्लै+क्त, क्तवन्त्+सि। विश्राणः, विश्राणवान। वि+श्री+क्त, क्तवन्तसि। 'ग्लै-विश्रे' धातुओं से क्त-क्तवन्त प्रत्यय, ऐकार को आकारादेश, प्रकृत सूत्र से तकार को नकार तथा विभक्तिकार्य।।१३८८।
१३८९. ल्वाद्योदनुबन्धाच्च [४।६।१०४] [सूत्रार्थ)
लूञ् आदि तथा ओकारानुबन्ध वाली धातुओं से परवर्ती निष्ठातकार को नकारादेश होता है।।१३८९।
[दु०वृ०]
लूञादिभ्य ओदनुबन्धेभ्यश्च परस्य निष्ठातकारस्य नकारो भवति। लूञ्-लून:, लूनवान्। ज्या-जीन:, जीनवान्। रुजो-रुग्णः, रुग्णवान्। भुजो-भुग्नः, भुनवान्। स्वादय ओदनुबन्धाः- 'घूङ् प्राणिप्रसवे' (२।५४,३।८१) सूनः, सूनवान्। दूङ्दून:, दूनवान्। गणकृतस्यानित्यत्वात् पूजो नाशे-पूना यवागूः, विनष्टेत्यर्थः। नाश इति किम्? धूतं धान्यम्। कम्पितमित्यर्थः। दुग्वोर्दीर्घश्च– विदून:, विदूनवान्। विगूनः, विगूनवान्। चकारोऽनुक्तसमुच्चयार्थस्तेन ऋल्वादिभ्यश्च क्ते:- कीर्णिः, गीर्णिः, लूनि:, पूनि:, धूनिः। ल्यी चेति यावत् ल्वादिस्ततो वृत्करणात्।हाज्याग्लाभ्यश्च- हानि:, जानि:, ग्लानिः।।१३८९।।
[वि०प०]
ल्वा०। जीन:, जीनवानिति। ग्रह्यादिसूत्रेण सम्प्रसारणे "तद् दीर्घमन्त्यम्" (४।१।५२) इति दीर्घः। स्वादय ओदनुबन्धा इति दिवादौ परिभाषितमेतत्। दुग्वोर्दीर्घश्चेति। 'टु दु उपतापे, गु पुरीषोत्सर्गे' (४।१०,५।१०५)। हाज्येति। जहातेरीत्वं जिनाते: सम्प्रसारणं क्तावपि न भवत्यनभिधानात्। केचिद् एतेभ्य: स्त्रियां क्तिप्रत्ययापवादं निप्रत्ययं मन्यमानाः हाज्याग्लाभ्यो निरिति वृत्तिपाठं मन्यन्ते, तदसङ्गतमित्यपरे। एवं सति स्त्रीप्रकरणे एवेदं निर्दिशेद् यथादर्शनान्तरमिति।।१३८९।