________________
५६०
कातन्त्रव्याकरणम्
[समीक्षा]
'द्व्यङ्गुलेनोत्कर्षम्, केशेषु ग्राहम्' इत्यादि शब्दों के साधनार्थं ‘णम्-णमुल्’ प्रत्ययों के अन्तर्गत पाणिनीय 'उ - लू' अनुबन्धों के अतिरिक्त उभयत्र समानता ही है।
[रूपसिद्धि]
१. द्व्यङ्गुलेनोत्कर्षम्, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलोत्कर्षम्। द्व्यङ्गुलेन, द्व्यङ्गुलेउत्+कृष्+णम्+सि। ‘द्व्यङ्गुलेन' तथा 'द्व्यङ्गुले' के उपपद में रहने पर उद्पूर्वक 'कृष विलेखने' (१।२२३) धातु से 'णम्' प्रत्यय, लघूपधगुण तथा विभक्तिकार्य।
२. केशैर्ग्राहम्, केशेषु ग्राहम्, केशग्राहम् । केशैः, केशेषु +ग्रहणम्+सि। 'केशैः- केशेषु' के उपपद में रहने पर 'ग्रह उपादाने' (८/१४) धातु से णम् प्रत्यय, उपधादीर्घ तथा विभक्तिकार्य।। १३१८।
१३१९. उपपीडरुधकर्षश्च [४ । ६ । ३४]
[सूत्रार्थ]
'तृतीयान्त-सप्तम्यन्त' के उपपद में रहने पर 'उप उपसर्ग-पूर्वक 'पीड - रुध-कृष' धातुओं से 'णम्' प्रत्यय होता है ।। १३१९ ।
[दु०वृ०]
तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णम् भवति । पार्श्वाभ्याम् उपपीडम्, पार्श्वयोरुपपीडम्, पार्श्वोपपीडं शेते। व्रजेनोपरोधम्, व्रजे उपरोधम्, व्रजोपरोधं गाः सादयति। पाणिनोपकर्षम्, पाणावुपकर्षम्, पाण्युपकर्षं धाना भक्षयति । । १३१९ । [दु०टी० ]
उप०। उपात् पीडरुधकर्ष इत्ययं समासो व्याख्यानात्, न तूपात् पीड इति । कृषिर्विलेखनार्थो भ्वादौ तुदादौ च तत्रान्विकरणे गुणहेतुना भौवादिकोऽयम्, तदेतत् साध्यशून्यं कृत्वा 'कृष' इति पठित्वा आद्रियन्ते ।। १३१९।
[वि०प०]
उप०। कृष विलेखने इति भ्वादौ तुदादौ च पठ्यते । अत्र च कर्ष इति अन्विकरणोपलक्षितस्य गुणस्य निर्देशात् कर्षतेर्ग्रहणं न कषतेरिति । एतच्च फलशून्यम्। यद् वा कश्चित् कृष इति पठति । सामान्यग्रहणेऽप्यदोष इत्यर्थः।।१३१९।
[क०त०]
उप०। पीडेति विकल्पेनन्तस्य इनोऽभावपक्षे निर्देश: । टीकायां व्याख्यानादिति साहचर्यादित्यर्थः। रुधपीडोपकर्षश्चेत्यकरणाद् वा । । १३१९ ।