________________
५५८
कातन्त्रव्याकरणम्
भुजिना योगः उपदंशिना सम्बन्धं व्याहन्तीति विरोधाभावात् । तेन हि करणतया सम्बन्धः, उपदंशिना च कर्मतयेति कथमेकस्यैकदैव कर्मकरणभावः इति चेत् ? अर्थस्य तथाभावात्, स हि मूलकेन भुञ्जानो मूलकमेवोपदश्य भुङ्गे इति यदा तृतीया ना णविधिः, यदा द्वितीया तदा त्वेति । । १३१६।
[क०त०]
तृतीया । तृतीयायामिति किमिति नाम्नीत्यास्तामित्याशङ्कार्थः ।
[पाठान्तरम् -
टीकायां न हीत्यादि । कर्मत्वे दंशिना सम्बन्धः केन निवार्यते इति भावः । न यथा व्यपदिष्टक्रमेणेति। न तृतीयार्थविशिष्टत्वेनेत्यर्थः । अन्यथेत्यादि । यदि च यथाश्रूयमाणमुपपदं स्यात् तदा स्वार्थे पुष इत्यत्र स्ववाचकत्वेन श्रूयमाणत्वात् कथमात्मीयवाचकस्यान्यवाचकस्योपपदमिति "तेषां परमुभयप्राप्तौ ” ( २।४।१६ ) इत्यस्यैकक्रियासम्बन्धेन कारकद्वयप्राप्तौ विषय:, अत एव ज्ञापकाद् 'ग्रामाय दत्त्वा तीर्थं गतः' इति च तत्रोदाहरणम् मतान्तरेणेत्यवधेयम्]॥१३१६।
[समीक्षा]
'मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुङ्क्ते' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ‘णम्’ प्रत्यय तथा पाणिनि णमुल्' प्रत्यय करते हैं। पाणिनि का सूत्र है— “उपदंशस्तृतीयायाम्” (अ० ३।४।४७)। पाणिनीय अनुबन्धभेद को छोड़कर अन्य प्रकार की तो उभयत्र समानता है।
[रूपसिद्धि]
१. मूलकेनोपदंशम्, मूलकोपदंशं भुङ्क्ते । मूलकेन + उप + दन्श् + णम्-सि। 'मूलकेन' के उपपद में रहने पर उपपूर्वक 'दन्श् दशने ' (१।२९०) धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय, नकार को अनुस्वार, वैकल्पिक समास तथा विभक्तिकार्य ।। १३१६।
१३१७. हिंसार्थाच्चैककर्मकात् [४।६ । ३२ ]
[सूत्रार्थ]
तृतीयान्त के उपपद में रहने पर अनुप्रयोग के साथ समानं कर्म वाली तथा हिंसार्थक धातु के बाद 'णम् ' प्रत्यय होता है।। १३१७।
[दु०वृ० ]
तृतीयान्त उपपदे हिंसार्थाद् धातोरनुप्रयोगेण समानकर्मकाण्णम् भवति। दण्डेनोपघातम्, दण्डोपघातं गाश्चालयति । एककर्मकादिति किम् ? दण्डेनाहत्य भूमिं गोपालको गाः सादयति ।। १३१७।