________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
प्रभा, भास् चित्र, कर्तृ, नान्दी, किम्, लिपि, लिबि, बलि, भक्ति, क्षेत्र, जङ्घा,
धनुस्, अरुस् एवं सङ्ख्यावाचक एक प्रभृति कर्म के उपपद में रहने पर 'डुकृञ् करणे' (७।७) धातु से 'ट' प्रत्यय होता है ।। १०२८|
1
२५३
[दु० वृ० ]
अहेत्वाद्यर्थमिदम् । तदाद्यादिषु कर्मसूपपदेषु कृञष्टो भवति । तच्छब्दश्छान्दसोऽयम् । तत् करोतीति तत्करः । तस्करः इति रूढित्वात् तस्य सकारः । एवं यत्करः, आदिकरः, अन्तकरः, अनन्तकरः, कारकरः, बहुकरः, बाहुकरः, अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, नान्दीकरः, किङ्करः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकर:, जङ्घाकरः, धनुष्करः, अरुष्करः, एककरः, द्विकरः, त्रिकरः, चतुष्करः । किंयत्तद्बहुषु स्त्रियामादैव कर्तव्यः । चकारात् ‘रजनीकरः, क्षपाकरः, क्षणदाकरः' इत्यादयोऽप्यनुसर्तव्याः ॥१०२८।
[दु० टी० ]
तदा०। तदादिश्चेति। आदिश्च अन्तश्चेति द्वन्द्वः । अन्तग्रहणं ज्ञापयति – उपपदविधौ तदन्तता नास्तीति । 'अहस्करः, भास्करः' इत्यनव्ययविसृष्टत्वात् सकारः । 'धनुष्करः, चतुष्करः, अरुष्करः' इति, तत्रापिशब्दबलात् सिद्धम् । दिवादिशब्दोऽधिकरणप्रधानोऽव्ययः । दिवा दिवसे करोति प्राणिनश्चेष्टायुक्तान् इति दिवाकरः । किमित्यादि । अन्यस्तु स्त्रियाम् ईप्रत्ययः स्यादेवेति मन्यते । नात्र "स्त्रियामादा" (२।४।४९), नदादेराकृतिणत्वादिति । तथा च जातिरिदानीं किङ्करी ते दृश्यते । चकारादित्यादि । अन्येष्वप्युपपदेष्वित्यर्थः। तदाद्यादिग्रहणमविसंवादार्थम् । तदाद्यादिषु सर्वदा हेत्वादिविवक्षा गरीयसीति सूत्रम् ॥ १०२८ ।
[वि० प० ]
तदा । त्यदादीति केचित् पठन्ति । तदयुक्तमित्याह तच्छब्द इत्यादि । न खलु भाषायां त्यत्करः इति प्रयोगो दृश्यते इति । चतुष्करः इति । चतुरः करोतीति रेफविसर्गस्य ‘‘अनव्ययविसृष्टस्तु सकारं कपवर्गयोः " (२।५।२९) इति कृते तत्रापिग्रहणात् षत्वम् । एवं धनुष्करः इति ॥ १०२८ ।
[क० च० ]
तदा । तदादिर्यस्येति असौ तदादिः भवन्तुपर्यन्तः । ' येन विधिस्तदन्तस्य' (का० परि० ३) इति न्यायादन्तपाठेनैव सिद्धे किमनन्तपाठेन ? सत्यम् । अयमेव पाठो बोधयति 'विधौ तदन्तविधिर्नास्ति' इति, तेन 'परमतत्करः' इत्यादिप्रयोगो न भवति। किंशब्दोऽयमसर्वनाम । त्यच्छब्द इति । ननु यदि छान्दसोऽयं त्यच्छब्दः पठ्यते, तदा कथं "त्यदादीनाम विभक्तौ " ( २३ । २९) कर्मण्युपमाने इत्यादौ त्यद्शब्दः पठ्यते, इह छान्दसस्याव्युत्पादनाद् इत्याह अयमिति, अयमपीति । अयं टप्रत्ययविषये उपपदभूत इत्यर्थः । अत एव पञ्जिकायां न खलु भाषायां त्यत्करः इति प्रयोगो दृश्यते। तथाहि अमीषामेव विस्मित्प्रयोग : ( ? ) । नान्दीकरः स्तुतिपाठकः । ननु 'चतुष्करः' इत्यादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य भिन्नपदत्वात् कथं षत्वम् इत्याह
-