________________
२३२
कातन्त्रव्याकरणम्
21
स्त्रियामी स्यात् । शील्यते इति शीलम् . मांसं शीलमस्या: मांसशीला । 'कल्याणप्रतीक्षा, दुःखक्षमा' इति यथाभिधानादण नास्ति, तथेहापि । यद्येवम् अम्भोऽभिगममस्या अम्भोऽभिगमेति स्यात् ? अम्भोऽभिगामी चेष्यत एव । समासेऽप्यभिधानं चेत् कष्ट स्यादिति वचनम् ॥१००८।
[दु० टी०]
शीलि० । शील्यते इत्यादि । शीलेरिनन्तात् स्वरान्तत्वादल् शीलम् । मांसे शीलमस्या: । एवं मांसे कामोऽस्याः, तथा मांसभक्षा । आचरणमाचारः, भावे घञ्। कल्याणे आचारोऽस्या: कल्याणाचारा या मांसं शीलयति, मांसविषये तस्याः शीलमिति नार्थभेदः । एवं सति "शेषाद विभाषा'' इति कप्रत्ययोऽपि न स्यात् । कल्याणम् इत्यादि। प्रतीक्षणं प्रतीक्षः, क्षमणं क्षमः। भावे घञ् । "न सेटोऽमन्तस्य०" (४।१।३) इत्यादिना दीर्घप्रतिषेधः । कल्याणे प्रतीक्षोऽस्या: कल्याणप्रतीक्षा, दु:खे क्षमोऽस्या: दुःखक्षमेति । "ईक्षिक्षमिभ्यां च" इति वचनमन्तरेणापि सिद्धम् , तथैतेऽपि सिध्यन्तीति भावः । यद्येवमित्यादि । अभिगम्यते इत्यभिगमम् , गमेः कर्मण्यत् । अम्भोऽभिगच्छति, अम्भोऽभिगम्यमानमस्या सम्बन्धीति वा अम्भोऽभिगमा नदीति प्राप्नोति । अण्णेवेष्यतेऽत्रेति तस्मात् समानार्थकोपपदस्य बहुव्रीहेश्च कर्मोपपद एव भवति न बहुव्रीहिरिति किं ज्ञापकेनेति मनसि कृत्वाह - समास इत्यादि । सुखप्रतिपत्त्यर्थं वचनमित्यर्थः । काण्डकार इत्यादि। घव नास्ति कुतो बहुव्रीहिचिन्ता ।।१००८।
[वि० प०]
शीलि०। 'कमेरिनङ्' इति परप्रसिद्धिवशादुक्तम्। इह तु कामिनङ् धात्वन्तरमेव। अणि हीति। हिशब्दो यस्मादर्थे। यस्माद् अण्प्रत्यये स्त्रियामीकारः स्यात् तस्मादिदं णप्रत्ययविधानम् आप्रत्ययार्थम्। तथाहि 'अण् - एयण - इकण - नण् - स्नण - क्वरप्' षडनुबन्धो नदादिः। तथापि न कर्तव्यमित्याह-शील्यते इत्यादि । स्वरान्तरत्वादलि कृते बहुव्रीहिणा सिध्यतीति भावः। काम्यते इति कामम्, भक्ष्यते इति भक्षम्, मांसं काममस्याः, मांसं भक्षमस्या: इति विग्रहः। यदा तु शीलनं शीलः, कामनं कामः, भक्षणं भक्षः इति भावेऽल , तदापि मांसे शीलोऽस्याः इति भिन्नाधिकरणो बव्रीहिः। एवम् आचरणम् आचारः, भावे घञ् , कल्याणे आचारोऽस्या इति । या हि मांसं शीलयति, तया मांसं शील्यते मांसे वा शीलमस्या इति नार्थो भिद्यते। न च बहुव्रीहौ "शेषाद् वा' इति कप्रत्ययप्रसङ्गो बहुलत्वात्। कथमिवेत्याह - कल्याणेत्यादि। प्रतीक्षणं प्रतीक्षः, क्षमणं क्षमः, "न सेट०" (४।१।३) इत्यादिना पनि दीर्घनिषेधः। कल्याणे प्रतीक्षोऽस्याः, दु:खे क्षमोऽस्या: इति। यथेदम् "ईक्षिक्षमिभ्यां च" इति वचनमन्तरेण सिद्धम्। यथा चेह 'कल्याणं प्रतीक्षते, दुःखं क्षमते' इत्यभिधानादण् नास्ति', तथा मांसं शीलयति इत्यादावपि न भवतीति भावः। ननु तर्हि अतिप्रसङ्ग