________________
२०२
कातन्त्रव्याकरणम्
भावे । समूह्य इति ऊहिना सिद्धम् । अस्यापि क्वचिद् वहत्यर्थे प्रयोगः । संवाह्य इति चाग्नौ भवत्येव ।।९८३।
[दु० टी०]
चित्या०। अग्निचित्या भावे इति कर्म निरस्तम् । निपातनादेव स्त्रीलिङ्गता । अग्नावित्यधिकारश्चित्यशब्दं प्रयोजयति । पूर्वयोगेण कृतस्तकारागमोऽयमिहोभयत्राख्येय इति। समह्य इत्यादि । सम्पूर्वस्य वहे: किं निपातनेन, अग्नावर्थे वहेरर्थमहिना गृह्णन्ति, पण्डिता इत्यर्थः । ब्राह्मणे शास्त्रे समूह्यमिति । क्वचिदिति समूहशब्दस्यार्थ ऊहिना दर्श्यते। समूह्य इति ऊहे: सम्पूर्वस्याग्नेरन्यत्र घ्यण् नाभिधीयते ।।९८३।
[वि० प०]
चित्या०। समूह्य इत्यादि। न तु वहेरयं निपातो वक्तव्य इति भावः। यद्येवं वहेरग्नावपि प्रयोगान्यत्वं प्राप्नोतीत्यत आह- संवाह्यः इति चेति ।।९८३।
[क० च०]
चित्या० । ऊहिनेति । ऊहेर्वितर्कार्थत्वात् कथं वहेरर्थः प्रतीयते इत्याह - अस्यापीति । अस्मन्मते ऊहेरित्यर्थः ।।९८३।
[समीक्षा
'चित्य: - अग्निचित्या' शब्दों को दोनों व्याकरणों में निपातनविधि से सिद्ध किया गया है । पाणिनि का सूत्र है – “चित्याग्निचित्ये च' (अ० ३।१।१३२) । अत: उभयत्र समानता ही है ।
[विशेष वचन] १. समूह्य इति ऊहिना सिद्धम् , अस्यापि क्वचिद् वहत्यर्थे प्रयोगः (दु० वृ०) । २. अग्नावर्थे वहेरर्थमूहिना गृह्णन्ति पण्डिताः (दु०टी०) । [रूपसिद्धि]
१. चित्योऽग्नि: । चि + घ्यण् + सि । चीयतेऽसौ । 'चिञ् चयने' (४५) धातु से 'घ्यण' प्रत्यय, तकारागम तथा विभक्तिकार्य ।
२. अग्निचित्या। अग्नि + चि + घ्यण् + आ + सि । अग्नेश्चयनम् । 'अग्नि' शब्द के उपपद में रहने पर 'चि' धातु से 'घ्यण' प्रत्यय, तकारागम, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानदीर्घ तथा विभक्तिकार्य ।।९८३।
९८४. अमावस्या वा [४।२।४५] [सूत्रार्थ)
सहार्थक ‘अमा' शब्द के उपपद में रहने पर 'वस्' धातु से घ्यणप्रत्ययान्त 'अमावस्या' शब्द निपातन से सिद्ध होता है ।।९८४/